________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११३
८म अध्यायः ]
शारीरस्थानम् । प्रभृति हित्वाष्टाङ्गलमभिज्ञानं कृत्वा च्छंदनावकाशस्य द्वयोरन्तरयोः शनै हीत्वा तीक्ष्णेन रोवम्यराजतायसानामन्यतमेनोर्द्धधारेण ® च्छेदयेत् तामग्रे सूत्रेणोपनिबध्य कण्ठे चास्य शिथिलमवस्सृजेत् ॥ ४०॥ __अस्य चेन्नाभिः पच्यते तां लोध्रमधुकप्रियङ्गहरिद्रादारुकल्कसिद्धेन तैलेनाभ्यज्यात् । एषामेव तैलोषधानां चूर्णेनावचूर्णयेत्। एष नाड़ीकल्पनविधिरुक्तः सम्यक् । असम्यक्कल्पने हि नाड्य आयामव्यायामोत्तुण्डितापिण्डलिका-+विनामिकाविजृम्भिकावाधेभ्यो भयम्। तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषकैः सपिर्भिश्चोपक्रमेत गुरुप्रभृति अष्टाङ्गुलं नाड्या हिला त्यक्त्वा च्छेदनस्थानस्यावकाशस्थानस्य द्वयोरन्तरयोरभिज्ञानमभिसन्धान (चिह्न) कृखातांनाडीमग्रे मूत्रेण बद्धा। रोक्म्यं सुवर्णनिर्मितम् । छित्त्वा तत्सूत्रकदेशमस्य शिशोः कण्ठे उपनिबध्य विसृजेत् । सुश्रुतेऽप्युक्तम्-ततो नाभीनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्धा च्छेदयेत् ततस्तत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग् बन्नीयात् इति ॥४०॥
गङ्गाधरः-अस्य चेदित्यादि। अस्य च्छिन्ननाभिनाड़ीकस्य । तां च्छिन्ननाड़ी नाभिं लोध्रादीनां कल्केन तैलपादिकेन चतुर्गुणजलेन च सिद्धेन तैलेन। एषामेव तैलोपधानां तैलकल्कार्थमेषां लोध्रादीनां चतुर्णां चूर्णेन। असम्यग् इत्यादि । आयामा दीर्घा व्यायामा विस्तीर्णा चासौ उतुण्डिता चेति आयामव्यायामोत्तुण्डिता। आयामव्यायामाभ्यामुत्तुण्डिता दीर्धपीनगुड़काकारा। पिण्ड लिका परिमण्डलगुड़काकारा। विनामिका अन्तोच्छूनमध्यनिम्नगुड़काकारा। विजृम्भिका मुहुर्मुहुद्धिमती। एते चखारो नाभिगता आबाधाः। कथमुपशोचम् । उपधानमावरणम्, तच्चेहाङ्गुल्या कार्यासपिचुनैव। भष्टाङ्गुलमभिज्ञानं कृत्वेति अष्टाङ्गुलं चिह्न कृत्वा। अर्द्धधारस्तिर्यगधारः शस्त्रविशेषः। तामिति च्छिन्नावशिष्टाङ्गुलां नाडीम् । कण्ठेऽवसृजेदिति नाड्यग्रवद्धं सूत्रं कुमारस्य कण्ठे निबन्नीयात् ॥३८-४० ॥
चक्रपाणिः-नाड्या अधिककल्पने दोषमाह-असम्यगित्यादि। आयामो दैर्घ्यम्, व्यायामो * अर्द्वधारेण इति चक्रः। + आयामव्यायामहुण्डिका इति पाठान्तरम् ।
२६५
For Private and Personal Use Only