________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११२
चरक-संहिता। जातिसूत्रीय शारीरम् प्राणान् पुनर्लभेत, कृष्णकपालिकासूण चैनमभिनिष्पुरणीयुः। यद्यच्चेष्टं स्याद् यावत् प्राणानां प्रत्यागमनं तत्तत् सर्वमेव कुर्य्यः ॥ ३६॥
ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत् । अथास्य ताल्वोष्ठकण्ठजिह्वामार्जनम् आरभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानयाकार्पासपिचुमत्या। प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्यासिकपिचुना स्नेहगर्भण प्रतिसंछादयेत्। ततोऽस्यानन्तरं कार्य सैन्धवोपहितेन सर्पिषा प्रञ्छर्दनम्। ततः कल्पनं नाड्यास्ततस्तस्याः कल्पनविधिमुपदेष्यामः। नाभिबन्धनात् माणे क्लेशविहतान् गर्भाशयात् निष्क्रमणयातनाभिभूतान् प्राणान् कृष्णकपालिकासूर्पण ईपिकनेलीबद्ध कपालदेशः कृष्णकपालिका तत्कृतः सूर्पस्तेन एनं शिशुम् अभिनिष्पुणीयुर्वीजयेयुरित्यथः। यद् यदित्यादि। क्लेशविहतप्राणागमनकरं यावत् कर्म कर्त्तव्यमित्यर्थः ॥३९॥
गङ्गाधरः-- तत इत्यादि । शिशोश्चैतन्यानन्तरं स्नानम् उदकग्रहणं मलमार्गशौचं कारयेत् । अथास्येत्यादि । अस्य प्राणागतत्वेन प्रकृतिभूतस्य कृतस्नानशौचस्य। सुप्रक्षालितोपधानया प्रक्षालितमावरणं यस्या अङ्गुल्यास्तया। लिखितनखया कर्तितनखया कार्यासपिचुमत्याङ्गुल्या ताल्वादिकप्रमार्जनं कुर्यात् । प्रमार्जितास्यस्य उक्तरूपेण प्रमार्जितताल्वादेः शिशोः शिरस्तालु ब्रह्मरन्ध्रस्थानं स्नेहगर्भण घृताक्तन कार्यासपिचुना तूलकेन। ततोऽनन्तरमस्य शिशोः सैन्धवोपहितेन सर्पिषा प्रच्छईनं कार्यम्। सुश्रुतेऽप्युक्तम् -अथ जात. स्योल्वं मुखञ्च सैन्धवसर्पिपा विशोध्य घृताक्तं मुद्धि पिच दद्यादिति । अत्र उल्वं शिशोः कण्ठगतश्लेष्माणं 'विशोध्य छईनेन निहरेदित्यर्थः। तत इत्यादि। ततः कल्पनं नाड्या इति नाभिनाड़ीच्छेदनम् । नाभिवन्धनात् नाभिमूलात् काले तु उष्णोदकनेत्यर्थः। संक्लेशविः तानिति यानिरन्ध्रपीड़ितादिक्ल शपराहतान् । कृष्णघपालिका ईषिकति, तत्कृतसूर्पः, कृष्णकपालिकासूर्पः, तेन निष्पन्नवायु वीजयेयुरित्यर्थः । अथ कियातं कालं तवीजनमित्थाह---यावत् प्राणानां प्रत्यागमनमिति। उदकग्रहणं मलमार्ग.
For Private and Personal Use Only