________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः शारीरस्थानम् ।
२१११ गमनात्। अमरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्वहि
मखाणि सज्जन्ति । तस्यास्त्वमरायाः प्रपतनार्थे खल्वेवमेव कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्य्याण्येतानि कार्माणि भवन्ति। तद यथा--अश्मनोः संघटनं कर्णयोर्मले, शीतोदकेनोष्णोदकेन वा सुखपरिषेकः। तथा संक्लेशविहतान् इत्यत आह–अमरां हीत्यादि। अमरां नाड़ी वातादीन्यन्यानि च प्रसवानन्तरं वहिम्मुखाणि सन्त्यन्तः सज्जन्ति लगन्ति तिष्ठन्ति । तेनास्थापनं वातानुलोमनं वातादिभिः सहैवासक्ताममरां निह रतीति भावः । सुश्रुतेऽप्युक्तम्--प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिटतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमा कण्ठात् पाययेत् । ततः कृतोपधाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसकश्रीमत्तानाम् अशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्त्तितनखाः परिचरेयु. रिति। अथास्या विशिखान्तरमनुलोममनुमुखमभ्यज्यात् । ब्रूयाच एनामेका सुभगे प्रवाहस्वेति न चापाप्तावीः प्रवाहस्व। ततो विमुक्ते गर्भनाड़ीप्रबन्धे सशुलेषु श्रोणिवङ्क्षणवस्तिशिरःसु प्रवाहेथाः शनैः शनैः। ततो गर्भनिर्गमे प्रगाढू, ततो गर्भे योनिमुखं प्रपन्ने गाढ़तरम् आ विशल्यभावात् । अकालप्रवाहणाबधिरं मूकं व्यस्तहनु मूर्द्धाभिघातिनं कासवासशोषोपद्रुतं कुब्ज विकलं वा जनयति। तत्र प्रतिलोममनुलोमयेत् । गर्भसङ्गे तु योनि धुपयेत कृष्णसर्पनिम्मौकेण पिण्डीतकेन वा। बनीयाद्धिरण्यपुष्पीमूलं, हस्तपादयोर्धारयेत् सुवर्चलां विशल्यां वा। इति । अथामरापातनान्तरं किं कर्त्तव्यं, शिशोर्वा जातमात्रस्य किं विधेयं इत्यत आह-तस्यास्वित्यादि । तस्या अपरायाः पुष्पनाड्याः प्रपातनार्थे क्रियमाणे निरुक्त कर्मणि सति तत्कालमेव जातमात्रस्यैव कुमारस्य, न तु जातोत्तरं कियन्तं कालं विश्राम्य । अश्मनोः प्रस्तरद्वयस्य संघट्टनं घर्षणेन शब्दायनम् उदरान्निष्क्रमणयातनाभिभूतशिशोश्चैतन्यार्थ कार्य शिशोरेव तस्य कर्णयोमू ले। तथा तेन प्रकारेण क्रियबलीवईः । एतैरेवेति वल्वजादियूषैः ; सजन्ति वहिर्गमनशीलानि पुरीषादीनि अभ्यन्तरदेशे संसक्तानि भवन्ति। शीतोदकेन चोष्णोदकेनेति ऋतुभेदेन ज्ञेयः, ग्रीष्मकाले शीतोदकेन, शीत
* बहिर्गमनशीलानीति वा पाठः ।
For Private and Personal Use Only