SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २११४ चरक-संहिता। जातिसूत्रीय शारीरम् लाघवमभिसमीक्ष्य कुमारस्य। प्रागतो जातकर्म कार्य, ततो मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्राशितुमस्मै दद्यात्। स्तनमत ऊर्द्ध मनेनैव विधिना दक्षिणं पातुपुरस्तात् प्रयच्छेत् । अथातः शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम् ॥ ४१॥ अथास्य रक्षां विदध्यात्। आदानीकर्कन्धुखदिरपीलुक्रमेतेत्यत आह-तत्रेत्यादि, गुरुलाघवमिति कुमारस्य नाभिवाधकदोषाणां गुरुलाघवम् अभिसमीक्ष्य पूर्व गुरुदोपं खरयोपक्रम्यानन्तरं लघुदोषमुपक्रमदित्यर्थः। प्रागत इत्यादि । नाभिनाड़ीच्छेदनात् पूर्व शीताभिरद्भिः कुमारमाश्वास्य कुमारस्य जातकर्म कार्यम् । तत इत्यादि । यथाम्नाय यस्य यद्वेदोक्तविधिना पुरुषानुक्रमेण कर्म विधीयते तद्वेदोक्तमन्त्रोपमत्रिते मधुसर्पिषी प्राशितु दद्यादा स्तन्यप्रवृत्तेश्च प्रमृतायाः। सुश्रुते च-अथ कुमार शीताभिरद्भिरावास्य जातकर्मणि कृते मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्णचूर्णमङ्गुल्यानामिकया लेहयेत् । ततो बलातैलेनाभ्यज्य क्षीरिक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनम् कपित्थपत्रकषायेण वा कोष्णेन यथाकालं यथादोपं यथाविभवञ्च इति । स्तन्यमत ऊद्ध मित्यादि । अत ऊर्द्धम् अतः परं स्तन्यप्रवृत्ती सत्याम् । सुश्रुतेऽप्युक्तं-धमनीनां हृदिस्थानां विकृतसात् अनन्तरम् । चतूरात्रात् त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते । तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तामिश्रंमत्रपूतं त्रिकालं पाययेत्। द्वितीये लक्ष्मणसिद्धं सर्पिस्तृतीये च । ततः प्रानिवारितस्तन्यं मधुसर्पिः स्वपाणितलसम्मितं त्रिकालं पाययेत् इति । अत ऊद्ध स्तन्यप्रवृत्ती अनेन विधिना यथाम्नायं मन्त्रोपमत्रितं दक्षिणं स्तनं पुरस्तादग्रे पातु प्रयच्छेत् । ततो वाममिति शेषः । अथात इत्यादि । उदकुम्भ जलपूर्णकुम्भं यथाम्नायं मन्त्रोपमत्रितं कुमारस्य शीर्षतः स्थाने स्थापयेत् ।। ४१ गङ्गाधरः-- अथास्य रक्षां विदध्यादिति। रक्षाविधिमाह----आदानीविस्तारः, ताभ्यां हुण्डिका आयामव्यायामहुण्डिका दीर्घपीनत्वयुतेत्यर्थः। पिण्डलिका तु परिमण्डलयुता। विनामिका अन्ताच्टूना मध्यनिम्ना। विजृम्भिका तु मुहुर्मुहुर्वृद्विमती। गुरुलाघवमवेक्ष्येति नाड़ीपाककारकपित्ते तथा वाते चायामच्यायामहुण्डिकादिविकारचतुष्टयकारके यो दोषो गुरुः, स उपकर्त्तव्यस्त्वरयेत्यर्थः। जातमात्रस्य वेदोक्तं कर्म जातकर्म। यथाम्नायमिति यथागमं मन्त्रोपमन्त्रिते । एतेनैव विधानेन स्तनमभिमन्त्रितं पाययेदित्यर्थः । आदनी घोषकभेदः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy