________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रक्तपित्तनिदानम्
१२७२
चरक-संहिता। (रक्तपित्तनिदानम् मार्गों पुनरस्य द्वार्द्धश्चाधश्च । तद बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूद्ध प्रतिपद्यमानं कर्णनासानेवास्ये यः प्रच्यवते । बहुवाते तु शरीरे वातसंर्गादधः प्रतिपद्यमानं मूत्रवच्चोमार्गाभ्यां प्रच्यवते। वहश्लेष्मवाने तु शरीरे श्लेष्मवातसंसर्गात् द्वावपि मागों प्रतिपद्यते। द्वौ मार्गों प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य। तत्र यदूद्ध भागं तत् च पीड़ा। तृष्णा कण्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनश्च भक्तद्वेषोऽविपाको विकृतिरपि भवेद रक्तपित्तोपसर्गाः । इति ॥ ४ ॥
गङ्गाधरः---मार्गमाहास्य-मार्गावित्यादि । यद्यपि मुखाद्यनेकमार्गा रक्तस्य प्रवर्त्तने तथापूाधिस्वाद् द्वाभ्यां द्वावेव युगपद्विमार्गस्य तयोरनतिरिक्तवात् । मार्गप्रतिनियमे दोषप्रतिनियमस्य हेतुखमाह-तद्वद्वित्यादि । तत् रक्तपित्तं बहुश्लेष्मणि शरीरे तच्छ्ष्म संसर्गात् खल्वा माशयस्थं प्रमाणातिवृत्तरक्तवहानां यकृतप्लीहनाड़ीप्रभवाणां स्रोतसामूर्द्ध गामिभिः स्रोतोभिरूद्ध प्रतिपद्यमान कणेनासिकानेवास्येभ्यः प्रच्यवते । बहुवाते तु शरीरे वातसंसर्गात्तद्रक्तपित्तं पकाशयस्थमधोगामिभिः स्रोतोभिरधः प्रतिपद्यमानं मूत्रवर्शोमार्गाभ्यां प्रच्यवते। बहुश्लेष्मवाते तु शरीरे श्लेष्मवात संसर्गार पकामाशयस्थं तद्रक्तपित्तं सर्वेभ्यः स्रोतोभ्यो द्वावपि मार्गावद्ध धोमागौ प्रतिपद्यमानं खलु प्रच्यवते। यथोक्तेभ्यः खेभ्य इति पूर्वोक्तेभ्यः कर्णनासानेवास्यमूत्रपुरीषमार्गेभ्यः। अस्य रोगस्य मार्गप्रतिनियतचिकित्सखान्मार्गप्रतिनियत कफादिदोषवाच मार्गप्रत्तिदर्शनेनैव दोषज्ञानाद दोपलिङ्गानि नात्र स्थाने व्याख्यातानि इति बोध्यम् ।
नन्वस्वेवं, रोगाणां साध्यवासाध्यबादिकन्तु दोषलिङ्गैरेव ज्ञायते तत् कथं दोषलिङ्गानि नोक्तानीत्याशङ्कायां रक्तपित्तस्य साध्यखासाध्यसादिकमपि न केवलं दोषलिङ्गविज्ञ यमपि तु तदपि मार्गप्रत्तिविज्ञ यमित्यभिप्रत्याहास्य साध्यवासाध्यखलक्षणानि-तत्रेत्यादि। विरेचनोपक्रमणीयखात्
चक्रपाणिः-साध्यत्वादिविशेषस्य तथा कफादिसम्बन्धस्य च मार्गविशेषकृतस्य प्रतिपादनार्थं मार्गमाह-मार्गावित्यादि। बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादितिवचनेन ऊद्धगे रक्तपित्ते श्लेष्मसम्बन्धः कारणान्तरचितेनापि श्लेष्मणा भवतीति दर्शयति ; यत् तु रक्तपित्तनिदानजन्यत्वं
For Private and Personal Use Only