________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः निदानस्थानम् ।
१२७१ मुखामागम इव लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य, रक्त-हरित-हारिद्रत्वमङ्गाश्यव-शकृन्मूत्रस्वेदलालासिंघाणकास्यकर्णमलपिञ्चड़िका-*-पिड़कानाम्, अङ्गवेदना, लोहितनीलपीतश्यावानामष्मितां दुष्टानाञ्च रूपाणां स्वप्ने सन्दर्शनमभीक्ष्णमिति लोहितपित्तपूर्वरूपाणि भवन्ति ॥ ३॥
उपद्रवास्तु खलु नियताः + दौर्बल्यारोचकाविपाकश्वासकासज्वरातितारशोषशोथपाण्डुरोगाः स्वरभेदश्च ॥ ४ ॥ एव । लोहितमत्स्यस्य यथामगन्धस्तथैवामगन्धित्वमास्यस्य । रक्तहरितहारिद्रखान्यतमवर्णसमजावयवानां शकुनश्च मूत्रस्य च स्वेदस्य च लालायाश्च सिङ्घाणकस्य चास्यस्य च कर्णमलस्य च पिञ्चड़िका नेत्रमलास्तेषां पिड़कानाश्च भवति । तथा स्वप्ने लोहिताद्यन्यतमवर्णानामच्चेिष्मतां वह्यादीनां दुष्टानाश्च रूपाणां कबन्धादिविकृतरूपाणां दर्शनमभीक्ष्णमिति ॥३॥
गङ्गाधरः-अस्य रक्त पित्तस्य दोब्बल्यादीनां लिङ्गदेनाशङ्कानिरासार्थमाह-उपद्रवास्वित्यादि। उपद्रवलक्षणन्तु मुश्रुतेनोक्तं- यः पूर्वोत्पन्न व्याधि जघन्यजातो व्याधिमुपसृजति स तन्मूल उपद्रवसंश इति । तथान्यत्र चरोगारम्भकदोषप्रकोपजन्योऽन्यो विकार उपद्रव इति। एते दोब्बल्यादय उपद्रवा रक्तपित्ते नियताः अवश्यम्भाविन इत्यत उक्ता ये चानियतास्ते नात्र तन्त्रे वाचायेणोक्तास्तस्माज्ज्वरादीनामुपद्रवा नोक्ता अनियतखात्। तथा सति चास्य रक्तपित्तस्यापि येऽन्ये खनियता उपद्रवा न तेत्रोक्तास्ते तु वमनमददाहमूर्छा भुक्तस्य घोरविदाहाधृतिहृदयातुल्यपीड़ा तृष्णा शिरोऽभितापभक्तद्वे पपूतिनिष्ठीवनविकृतयश्व बोध्याः। सुश्रुते हुाक्तम्-दौर्बल्यश्वासकासज्वरवमथमदाः पाण्डुता दाहमूछो भुक्ते घोरो विदाहस्वधृतिरपि सदा हृद्यतुल्या भङ्गवेदना अङ्गमईः। व्याधेरसाध्यस्य कृच्छ्रसाध्यस्य वा धर्मस्य ख्यापकान् लिङ्गविशेषानुपदवाख्यानाह-उपद्रवास्वित्यादि। तेनोपद्रवस्य लिङ्गभूतत्वेन निदानपञ्चकातिरिक्तस्वम् ; रक्तपित्ते चैते उपद्रवाः प्रायोभा वित्वेन नियता इत्यभिधीयन्ते ; ज्वरे तूपद्रवा नियता न सन्ति, तेन तत्र नोक्ताः ; एवं गुल्मादावपि प्रायोभावित्वेन उपद्वकथन व्याख्येयम्। स्वरभेदश्चेति पृथकपाठेन, स्वरभेदस्य प्रायोभावित्वमाह ॥ ३॥ ४ ॥
* पिड़कोलिका इति चक्रः । नियता इति पदं केचित् ग्रन्थेषु न दृश्यते ।
For Private and Personal Use Only