________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७० . चरक संहिता। रक्तपित्तनिदानम् ___ तस्यमानि पूवरूपाणि भवन्ति ; तद यथा-अनन्नाभिलाषो भुक्तरय विदाहः शुक्ताम्लगन्धरस उद्गारश्छद्देरभीक्ष्णागमनं छदितस्य बीभत्सता स्वरभेदो गात्राणां सदनं परिदाहो
याधो वोद्ध वायुगपद् वा प्रवर्त्तनात् लोहितपित्तमाचक्षते। लोहितवर्णगन्धौ केम प्रकारेण स्वस्य विदधीतेत्यत आह–तल्लोहितसंसर्गादिति । एतेन लोहित. मिश्रलं ख्यापितं पित्तस्य। लोहितमिश्रणे हेदुमाह-लोहितप्रदूषणादिति । एतेन दूष्यमत्र लोहितमिति दर्शितम्। तथा लोहितश्च तत् पित्तञ्चेति लोहितपित्तमिति व्युत्पत्तिश्च ख्यापिता। लोहितखञ्च पित्तस्य लोहितसंसर्गात् लोहितसंमिश्रणन्तु लोहितवर्णगन्धाभ्यामनुमेयमिति । तेन स्वदृषितलोहितमिश्रितपित्तप्रत्तिर्बोध्या। अत एव लोहितश्च पित्तञ्चेति लोहितपित्तमिति न युज्यते, पृथपित्त रक्तयोः प्रवृत्त्यदर्शनात् । न वा लोहितेन सह मिश्रं पित्तं लोहितपित्तमिति, युगपत् स्वरूपतो लोहितस्य पित्तस्य पृथक् प्रत्यदर्शनात् ।। २॥
गङ्गाधरः-विधिसम्प्राप्तिमुक्त्वा पूर्वरूपाण्याह-तस्येमानीत्यादि। अननाभीत्यादि। शुक्तं चुकं तस्याम्लस्य च द्रव्यस्येव गन्धरसौ यत्रोद्गारे स तथा। अभीक्ष्णागमनं प्रायेण च्छदिवेगोपस्थितिनं तु च्छर्दिः। यदि च च्छदिः स्यात् तदा तस्य बीभत्सता वैकृतचेष्टता। स्वरभेदः । परिदाहो गात्राणाम्
प्लोहप्रभवाणामित्यस्य विशेषणं - 'लोहितबहानाम्' इति ; चकारोऽवधारणे ; वक्ष्यति च चिकित्सिते,-"प्लोहानञ्च यकृच्चैव तदधिष्ठाय वर्मते। स्रोतांसि रक्तवाहानि तन्मूलानि हि देहिनाम्” ॥ इति । ___ एवं रक्तदूषके पित्ते यथा 'रक्तपित्त'संज्ञा भवति, तदाह-संसर्गादित्यादि। संसर्गालोहितसम्बन्धात् ; लोहितगन्धवर्णानुविधायित्वादिति लोहितसदृशगन्धवर्णयुक्तत्वात् ; एतेन रक्तयुक्त पित्तं 'रक्तपित्तम्' इति प्रथमा निरुक्तिः ; रक्त दूष्ये पित्तमिति द्वितीया, रक्तवत् पित्तं रक्तपित्तमिति तृतीया दर्यते ; उक्तञ्च चिकित्सिते-“संसर्गाद दूषणात् तत् तु सामान्याद् गन्धवर्णयोः। रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः ॥"; एतदेव च रक्तपित्तस्य सामान्य हक्षणम् यद–'रक्तगन्धवर्णानुविधानम्' ; विशेषलक्षणन्तु ऊर्धादिभेदेन कफादिसम्बन्धात् एवेह बोदव्यम् ; चिकित्सितेऽपि “सान्द्रं सपाण्डु इत्यादि लक्षणं वक्ष्यति ॥ १२ ॥
चक्रपाणिः-पूर्वरूपे च्छतिस्य बीभत्सता वैवर्ण्यवैगन्धादियोगात् ; पिड़कोलिका नेत्रमलाः ;
For Private and Personal Use Only