________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिसूत्रीयं शारीरम्
२१०८
चरक संहिता | शिंशपासारधूमं वा, तरयाश्चान्तरान्तरा कटीपार्श्वपृष्ठसक स्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुमुखमवमृद्गीयात् । इत्यनेन तु कर्मणा गर्भोsवाक प्रतिपद्यते । स यदा जानीयाद् विमुच्य हृदयमुदरमस्यास्त्वाविशति वस्तिशीर्षमवगृह्णाति त्वरयन्त्येनामाव्यः परिवर्त्ततेऽस्या अवाग् गर्भ इति । अश्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत । कर्णे चारया मन्त्रमिममनुकूला स्त्री जपेत् ।
चितिर्जलं वियत् तेजो वायुरिन्द्रः प्रजापतिः । सभी त्वां सदा पान्तु वैशल्यञ्च दिशन्तु ते ॥ प्रसुव त्वमविक्लिष्टमविक्लिष्टा शुभानने ।
कार्त्तिकेय दुतिं पुत्रं कार्त्तिकेयाभिरक्षितम् ॥ ३६ ॥ ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युरनागताबीर्मा प्रवाहिष्ठाः, यदि ह्यनागतावीः प्रवाहयते व्यर्थमेवास्यास्तत् कर्म भवति । प्रजा चास्या विकृता विकृतिमापन्ना च श्वासकासशोषनीहप्रसक्ता वा भवति । यथा हि चवथूद्गार वातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाप्यशप्नोति, तथाऽनागतकालं गर्भमपि प्रवाहमाणा । यथा चैषामेव चवध्वा
For Private and Personal Use Only
-
गङ्गाधरः– अथेत्यादि । भूर्ज्जपत्रधूमं शिंशपासारधूमं वोपाजिघ्रन्मुहुर्मुहुरित्यन्वयः । अनुमुखमधोनयनरूपेण । अवाक् हृदयबन्धमुक्तोऽधः । स यदेत्यादि । आविशति गर्भः त्वरयन्त्येनामाव्य इति आवीभिरेषा व्यग्रा भवतीत्यर्थः । तदास्या गर्भोऽवाक परिवर्त्ततेऽधः शिरा भवति । प्रवाहयितुं कुन्धयितुम् । मन्त्रमाहक्षितिरित्यादिर्मन्त्रः । ताश्चैनामित्यादि । किमनुशिष्युस्तदाह - अनागतावीः । तत्र दोपमाह - यदि हीत्यादि । व्यर्थं विरक्त्यर्थम् । विकृतेति वितृणोतिलब्ध्वेति हेतुमासाद्य । यद्यपि मुषलग्रहणं निषिद्धम्, तथाप्युत्तरकालं द्वारे मुषलस्थापनं वक्तम्यमिति साधु मुषलोपादानम् ॥ ३४–३७ ॥