________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम्।
२१०७ तदध्यासीनां तां ततः समन्ततः परिचार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्। ताश्चाश्वासयन्त्यो वागभिहिणीयाभिरुादिष्टवदर्थाभिधायिनीभिः। सा चेदावीभिः संक्लिश्यमाना न प्रजायेत, अथैनां ब याद-उत्तिष्ठ मुषलमन्यतरञ्च गृह्णीष्व । अनेनैतदूखलं धान्यपूर्ण मुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चंक्रमख चान्तरान्तरा इत्येवमुपदिशन् येके ॥ ३४ ॥ __ तन्नेत्युवाच भगवानात्रेयः। दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते विशेषतश्च प्रजननकाले। प्रचलितसर्वधातुदोषायाः सुकुमारस्वभावाया नाऱ्या मुषलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात् । दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी। तस्मान्मुषलग्रहणं परिहार्यमृषयो मन्यन्ने, जृम्भणं चंक्रमणश्च पुनरनुष्ठेय. मिति ॥ ३५॥ ____ अथास्यै दद्यात् कुष्ठलालाङ्गलिकीवचाचित्रकचिरविल्व-+चूर्णमुपघ्रातुं । सा तत् मुहुर्मुहुरुपजिघ्रत्। तथा भूर्जपत्रधूमं तदध्यासीनां तच्छयनमध्यासीनां तां गभिणीम् । प्रादुर्भूतावीं मृदास्तरणसम्पन्नां शय्यामध्यास्तवतीं गर्भिणी समन्ततश्चतुर्दिक्षु ता यथोक्तगुणाः स्त्रियः परिचार्य परिचर्यकर्माणि कृखा पाहणीयाभिरुपदेष्टव्यार्थाभिधायिनीभिः वागभिराश्वासयन्त्यः पर्युपासीरन् सर्वतोभावेनोपासनां कुर्युः। सा चेदित्यादि। न प्रजायेत न प्रसूयेत। अथैनां गर्भिणी तासामेका ब यात्। किं ब्रूयादित्यत आह-उत्तिष्ठेत्यादि। अनेन मुपलेन। अभिजहि अभिघातं कुरु। अवजृम्भस्व हस्तपादादिप्रसारणं कुरु। चंक्रमस्व मुहुः पादविहरणं कुरु। अन्तरान्तरा मध्ये मध्ये ॥३४॥
गङ्गाधरः-तन्नेत्यादि। स्पष्टास्त्रियः श्लोकाः ॥ ३५ ॥ चक्रपाणिः-उपदिष्टार्थाभिधायिनी वाग् ग्राहणीया। अवजृम्भस्वेति गात्राणि प्रसारय । अन्तरं * परिवायेति बहुषु ग्रन्थेषु पाठः । + इतः परं चव्येत्यधिकः पाठो दृश्यते ।
For Private and Personal Use Only