________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०६
चरक-संहिता। जातिसूत्रीय शारीरम् स्वस्ति वाचयेत्। ततः पुण्याहशब्देन गोब्राह्मणमन्त्रावर्तमाना प्रविशेत् सूतिकागारम्। तत्रस्था च प्रसवकालं प्रतीक्षेत ॥३३॥
तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभिभवन्ति । तद यथा—क्लमो गात्राणां, ग्लानिराननस्य म्लानता,अक्ष्णोःशैथिल्यं, विमुक्तबन्धनत्वमिव वक्षसः, कुक्षरवस्त्र सनमधो गुरुत्वं, वडवणवस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदो योनेःप्रस्रवणमनन्नाभिलाषश्च। ततोऽनन्तरमावीनां प्रादुर्भावः प्रसेकश्च गर्भोदकस्य। आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्। दीनभिवाद्य पुनराचम्य स्वस्तिवाचनं कृखा पुण्याह पुण्याह मित्युक्त्वा गोब्राह्मणं प्रदक्षिणं चरणमभिहरन्ती । सुश्रुतेऽप्युक्तं- नवमे मासे मूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ। तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्दुकभल्लातकनिर्मितं सर्लागारं यथासङ्ख्य तन्मयपश्येमुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्रागद्वारमुदगद्वारं वाष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयमिति। तत्रस्थेत्यादि स्पष्टम् ।। ३३॥
गङ्गाधरः-तस्या इत्यादि। प्रसवकालमभि लक्ष्यीकृत्य । क्लमो गात्राणाम् अवसन्नता । ग्लानिरहर्षः । आननस्य म्लानता। अक्षणोः शैथिल्यं निमेषोन्मेपासामर्थ्यमित्यर्थः। विमुक्तबन्धनलमिवेति वक्षोबन्धमोचनमिवेत्यर्थः। कुक्षेरव स्रसनमधस्तात्पतनमिव । अधोगुरुत्वमधस्तादुदरे गुरुता । वङ्क्षणादिषु निस्तोदः, योनेः प्रस्रवणं सावः। सुश्रुतेऽप्युक्तम्-जाते हि शिथिले कुक्षौ मुक्त हृदय बन्धने । सशृले जघने नारी शे या सा तु प्रजायिनी॥ तत्रोपस्थितप्रसवायाः कटी पृष्ठं प्रति समन्ताद् वेदना भवत्यभीक्ष्णं पुरीपप्रतिमूत्रं प्रसिच्यते । योनिमुखात् श्लेष्मा चेति । ततोऽनन्तरमित्यादि। आवीनां प्रसववेदनानाम् गर्भोदकस्य गर्भगतोदकस्य। आवीप्रादुर्भावे खित्यादि-शयनं शय्याम् ।
हितानि फलानि। किंवा नान्दी मुरजः, तन्मुखाकृतीनि फलानि खज्जू रादीनि। पुण्याह शब्दो गलशाययुः। प्रदक्षिणं यथा भवति तथा सममुवर्तमाना ॥ ३३ ॥
For Private and Personal Use Only