________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् । . २१०५ द्वौ च विल्वमयो पर्यो तेन्दुकैङ्गादानि काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्वो बहुशः प्रजाताः सौहाईयुक्ताः सततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्ल शसहिष्णवोऽभिमताः । ब्राह्मणाश्चाथर्ववेदविदो यच्चान्यदपि तत्र समर्थ मन्येत यच्चान्यच्च ब्राह्मणा व युः स्त्रियश्च वृद्धास्तत् कार्यम् ॥ ३२॥
ततः प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते भगवति शशिनि कल्याणे करणे मैत्रे मुहत् शान्तिं हुत्वा गोब्राह्मणमग्निमुदकश्चादौ प्रवेश्य गोभ्यस्तृणोदकं मधु लाजांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि फलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य रजतस्य । बहुशः प्रजाताः वहपत्यप्रभूताः। प्रदक्षिणाचाराः प्रकर्षेण दाक्षिणेन साम्मुख्येन न वैमुख्येनाचरणशीलाः कम्मैदक्षा इत्यर्थः। प्रतिपत्तिकुशलाःयदुच्यते केनचित् तदुक्तिमात्रेण बोद्धाः ज्ञापिकाश्च। प्रकृतिवत्सला वात्सल्यस्वभावाः। अभिमताः प्रमूतिमनोऽभिसम्मताः । एतानि स्त्रीविशेषणानि । ब्राह्मणाः इत्यादि। तत्र समर्थ कम्मैकरत्वेनावश्यकम्। वृद्धा इति स्त्रिय इत्यन्वयः॥३२॥
गङ्गाधरः-तत इत्यादि। कल्याणे इत्यस्य करण इत्यनेनाप्यन्वयः । शान्तिं शान्तिकर्म विधिना हुखा आदौ मूतिकागारे प्रवेशकाले पूर्व गोब्राह्मणं तत्र गृह प्रवेश्य प्रवेशन कारयित्वा ततोऽग्निं तत्र प्रवेश्य उदकश्च तत्र प्रवेश्य, अक्षतांस्तण्डुलान् सुमनसः पुष्पाणि नान्दीमुखानि माङ्गल्यसूचकफलानि केचित् नान्दीमुखो मृदङ्गस्तदाकारफलानि इष्टानि गर्भिण्याः स्वाभिमतानि प्रविश्यागारे आसनस्थेभ्यो ब्राह्मणेभ्यो दत्त्वा पूर्वमुदकमभिवाद्य ततो ब्राह्मणाकिंवा सूची यत्र स्थाप्यते स सूचीपिप्पलकः। पर्यङ्गः खटा। समर्थ मन्येत इति कार्यामिति शेपः ॥ ३२ ॥ चक्रपाणिः - शान्तिं कृत्वेति शान्ति हामं कृत्वा । नान्दोमुखानि च फलानि नान्दीमुखश्नाद्रोप.
२६४
For Private and Personal Use Only