________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०४
चरक-संहिता। ( जातिसूत्रीय शारीरम् राणां वा यानि चान्यान्यपि ब्राह्मणाः शंसेयुरथर्ववेदविदः। तद्वसनालेपनाच्छादनापिधानसम्पदुपेतं वास्तु छ विद्यात्। हृदययोगेनाग्निसलिलोदूखलवर्चस्थानस्नानभूमिमहानसभृतुसुखञ्च + । तत्र सर्पिस्तैल-मधुसैन्धव-सौवर्चलकाललवण-विडङ्गगुडकुष्टकिलिम नागर-पिप्पलीपि-पलीमूलहस्तिपिप्पली-मण्डूकपण्येलालाङ्गलिकी-वचा-चव्य-चित्रक-चिरविल्व-हिङ्गसर्षप-लसुन-कणकणिकानीपातसीवल्लिजभूर्जाः कुलत्यमेरेयसुरासवाः सन्निहिताः स्युः । तथाश्मानौ द्वौ द्वे चण्डमुषले द्वे उदूखले खरो वृषभश्च द्वौच तीक्ष्णौ सूचीपिप्पलको सौवर्णराजतौ शस्त्राणि च तीक्ष्णायसानि वारुणानां वरुणकाष्ठानाम् । शंसेयुः प्रशस्तान्युपदिशेयुः। तदवसनेत्यादि । तषां तेषां काष्ठनिर्मितं वसनं पीठखट्रादिकम् आलेपनमालेपनार्थ पात्रम् आच्छादनम् चतुष्पार्चे गृहस्यावरणम् अपिधानं कवाटम् एवमादिसम्पदुपेतं वास्तु मूतिकागारस्य वासस्थानं विद्यात्। हृदययोगेन मनोयोगेन तत्तदृतुसुखमग्निः सलिलमुखलं वचःस्थानं विविसर्पस्थानं स्नानभूमिमहानसञ्च, इत्येतत् सव्वमृतुसुखं तत्प्रसवकालसुखम् । तत्रेत्यादि। काललवणं विड़लवणमित्यन्ये विटलवणसदृशकृष्णवर्णलवणम्। किलिमो देवदारु। कणः कुण्डक इति ख्यातः । कणिका स्थूलावयवतण्डुलकणाः; बल्लिजः कुष्माण्डम् । अश्मानौ द्वौ शिलाशिलापुत्रौ । द्वे चण्डमूषले गुरुतरम्पलद्वयम् । उदृखलद्वयश्च । मूतिकागारद्वारे स्थापनार्थ, न तु मुषलव्यायामार्थम् । खरो गद्देभः, वृषभोऽनडान् । सूचीपिप्पलको मृचिगुड़कद्वयं सौवर्णराजतो एका सूची सुवर्णस्य द्वितीया चारणस्वगावरणं वा। तत् वयेदिति सम्बन्धः । वसनं वस्त्रम् । आच्छादनमास्तरणम् । अपिधानं कपाटः। वास्तुविद्याहृदयं वास्तुविद्यातरवम्, तढ्योगादग्न्यादीनां स्थानं यत्र तद् गृहम् । वास्तुविन्मतेन विभक्तमग्न्यादिस्थानं तद् मूतं कर्त्तव्यमित्यर्थः। वर्तमान मपेक्ष्य सुखमृतुसुखम्। सर्पिस्तैलादीनाञ्चान गृहे स्थापनीयानां व्यक्त एव तावदुपयोगः। बहुत्वेन येषान्तु न वक्तव्यः, तेपामप्ययमुपयोग उन्नेयः। किलिमं देवदारु। कणः कुण्डक इति ख्यातः । कणिका तु कुण्डकात् स्थूला। तण्डुला येन कुट्टयन्ते, तन्मुषलम् । कुण्डमुषले इति हस्वमुपले। किंवा चण्डमुषले इति पाठः, तदा गुरुतरमुषले इत्यर्थः। सूच्याकारौ पिप्पलको सूचीपिप्पलको ।
* वास्तुविद्याहृदययोगाग्नीति चक्रतः पाठः । । सेवयेदित्यधिकः पाठः चक्रपतः ।
For Private and Personal Use Only