________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२१०६ दीनां सन्धारणमुषघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणम् इति। सा यथानिर्देशं कुरुय्वेति वक्तव्या स्यात् । तथा च कुर्वती शनैःपूर्व प्रवाहेत ततोऽनन्तरं बलवत्तरमिति । तस्याश्च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः “प्रजाता प्रजाता धन्यं धन्यं पुत्रं,” इति। तथास्या हर्षेणान्याय्यन्ते प्राणाः ॥३७॥
यदा च प्रजाता स्यात् तदैनामवेक्षेत काचिदस्या अमरा प्रपन्ना वा प्रपन्ना नेति। तस्याश्चेदमरा न प्रपन्ना स्यादथैनाम् अन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद बलवन्निपीड्य सव्येन पाणिना पृष्ठत उपगृह्य सुनितं निर्द्धनुयात् । अथास्याः पाष्र्या ® श्रोणीमाकोटयेत्। अथास्याः स्फिचावुपसंगृह्य सुपीड़ितं पीडयेत् । अथास्या बालवेण्या कण्ठतालु परिमृशेत् । विकृतिमित्यादि । विकृति विपरीताकृतिम् । तथा प्राप्तकालस्येति। प्राप्तावीगर्भिणी यदि न प्रवाहते तदा तदप्रवाहणं प्रवाहणकालप्राप्तस्य गर्भस्योपघातायोपपद्यते इति । तथेत्यादि । शनैःपूर्व शनैःपूर्व यत्र तत् शनैःपूर्व प्रवाहेत पूर्व मन्दमन्दं प्रवाह्यानन्तरं बलवत्तरं प्रवाहेत। प्रजाता प्रजाता प्रसूतवती प्रमूतवती धन्यं धन्यं पुत्रमिति शब्दं स्त्रियः कुयुः। तथा तेन शब्दकरणेन अस्याः प्राणा हर्षणाप्याय्यन्ते ॥ ३६॥३७॥
गङ्गाधरः-यदा चेत्यादि। प्रजाता स्यादिति प्रमूतवती स्यात् तदा त्वेनां प्रसूतामवेक्षेत अवधानेन काचित् स्त्री । अस्या अमरा नाम नाड़ी पुष्पनाड़ी प्रपन्ना पतिता वा न प्रपन्नेति पश्येत् । न चेत् प्रपन्ना तदा सुनिर्दू तं सुनिष्कम्पितं निर्द्धनुयात् निष्कम्पयेत् । पाया श्रोणीम् आकोटयेत् कुटिलं कारयेत् । बालवेण्या केशवेणी मुखमध्ये प्रवेश्य कण्ठस्य तालु परिमृशेत् चक्रपाणिः-सुनि तामति क्रियाविशेषणम् । आकोटयेदिति पीड़येत्। बालकृता वेणी
* पार्णया इत्यत्र पादपाा , परिमृशेदित्यत्र परिस्पृशेदिति पाठान्तरम् ।
For Private and Personal Use Only