________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६४
चरक-संहिता। जातिसूत्रीयं शारीरम् नागोदरे तु योनिव्यापन्निर्दिष्टं पयसामामगर्भाणां गभवृद्धिकराणाश्च सम्भोजनमेतैरेव सिद्धैश्च घृतादिभिः सुबुभुनायाम् । अभीक्ष्णं यानवाहनापमार्जनावजृम्भणैरुपपादनमिति ॥ २२ ॥
यस्याः पुनर्गों न स्पन्दते,तांश्येनमत्स्यगवयतित्तिरिताम्रचूड़शिखिनामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूत. टहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ॥ इति । क्षीरघृतवसामज्जशालिपष्टिकयवगोधूममाषशृङ्गाटककशेरुकत्रपुषर्वारुककारुकालाबूककालिन्दककतकाङ्कलोड्य पियाल-पुष्करवीजकाश्मय॑मधुक-द्राक्षाखज्ज राजादनतालनारिकेलेक्षुविकारबलातिबलात्मगुप्ता-विदारीपयस्यागोक्षुरक-क्षीरमोरटमधूलिकाकुष्माण्डप्रभृतीनि समासेन मधुरो वर्गः। वातहरोऽत्र भद्रदाळदिः सुश्रुते वीरतादिरुक्तः । तद् यथा-वीरतरु-सहचरद्वय-दर्भक्षादनीगुन्द्रानल-कुशकाशाश्मभेदकाग्निमन्थमोरटावसुकव सिरभल्लककुरुण्टकेन्दीवरकपोतवक्ताः श्वदंष्ट्राचेति। वीरतादिरित्येप गणो वातविकारनुत् । अमरीशर्करामूत्र-कृच्छाघातरुजापहः॥ इति । एषां भौतिकादीनां घृतपादांशकल्केन चतुर्गुणकाथेन च सिद्धानां सर्पिषामुपयोगः। बहुवचनं गणाभिप्रायेण। भौतिकेन सिद्धस्य सपिपो जीवनीयेन सिद्धस्य वाहणीयेन सिद्धस्य वा मधुरेण सिद्धस्य वाप्युपयोग इति बोध्यम् । इत्युपविष्टकगर्भिष्याः। नागोदरगर्भिण्यास्वाह--नागोदरे खित्यादि । योनिव्यापत्तिनिर्दिष्टम् आमगर्भाणां वृद्धिकरो यावान् तावान् पयसा आमगर्भाणां चकारात् नागोदरसंज्ञगर्भस्य च वृद्धिकरः। संभोजनमेतैरेव भौतिकादिसिद्धैतादिभिः सुबुभुक्षायामभीक्ष्णं संभोजनमन्त्रस्य सम्यगा तृप्तमा भोजनम् । यानं नौकायनभिसंक्षोभणयानैदौलादिवाहनैरपामार्जनैरभ्यङ्गस्नानादिभिरवजम्भणैरुत्साहवर्द्धनैः प्रियाश्वासादिवचनैर्गात्रप्रसारणैर्वा उपपादनम् ॥ २२ ॥
गङ्गाधरः–यस्याः पुनरित्यादि । श्येनः पक्षिविशेषः। श्येनादीनामन्यतममांसस्य रसेन सपिष्मता घृतयुक्तेन। सर्पिष्मता माषयूषेण वा। प्रभूतविष्टकनागोदरयोस्तु विशिष्टैवेह चिकित्सा वक्तव्या। किंवा 'यस्याः पुनर्गर्भः प्रमुप्तो न स्पन्दते' इत्यादिना योऽवस्थायां विशेषो वक्तव्यः, तमपेक्ष्योक्तं चिकित्सितविशेष इति । भौतिकं मूतोप. युक्तहितं ववागुगगुल्वादि। किंवा महापैशाचिकादिधृतवक्ष्यमाणं द्रव्यम्, सुभिक्षाया इति
* सुभिक्षाया इति चक्रः।
For Private and Personal Use Only