________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२०६३ योगाद्गर्भिण्या महति संजातसारे गर्भ पुष्पदर्शनं स्यादन्यो वा योनिस्राव, तस्या गर्भो वृद्धिं न प्राप्नोति निः तत्वात्, स कालान्तरमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित् । उपवासवतकर्मपरायाः पुनः कदाहारायाः स्नेहव पिण्या वात. प्रकोपणान्यासेवमानाया गर्भो वृद्धिं नाप्नोति परिशुष्कत्वात्, स चापि कालान्तरमवतिष्ठतेऽतिमात्रमस्पन्दनश्च भवति, तन्तु नागोदरमित्याचक्षते ॥ २१॥
नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः । भौतिकजीवनीयवृहणीयमधुरवातहरसिद्धानां सर्पिषामुपयोगः। जातसारे गर्भ महति सति उष्णतीक्ष्णोपयोगात् पुष्पदर्शनं स्यात्. अन्यो वा प्रदरादिरूपो योनिस्रावः स्यात्, स निःस्र तस्रावो गोऽयथास्वकालवर्द्धमानः कालान्तर प्रसवकालमतीत्यातिमात्रं कालमवतिष्ठते गर्भाशये इति शेषः । तस्य संज्ञामाह--तमित्यादि। उपवेशनशीलखादुपविष्टकसंज्ञा । उपवासेत्यादिकदाहारायाः कुत्सिता रुक्षशाकाशुधान्यादितण्डुलोदनादय आहारा यस्यास्तस्याः। परिशुष्कलात् उपवासादिभिर्गर्भस्य परिशोषात्। तेन सोऽपि गर्भः कालान्तरमवतिष्ठतेऽतिमात्रम् । स च गर्भोऽस्पन्दनः स्पन्दनरहितो भवति । तस्य संज्ञामाह-तमित्यादि। नागोदरमिति संज्ञा ॥२१॥
गङ्गाधरः-अनयोश्चिकित्सामाह-नायोस्तयोरित्यादि। तयोरुपविष्टकगर्भवतीनागोदरगर्भवत्यो योः। भौतिकेत्यादि भूतोपघातेभ्यो हितं वचागुग्गुल्वादिकं भूतोन्मादापस्मारोक्तं द्रव्यं भौतिकम्। जीवनीयो दशकः । वृहणीयः क्षीरिणीराजावकादिदशकः । मधुरोऽत्र विमानोक्तमधुरस्कन्धः, न तु सुश्रुतोक्तः काकोल्यादिर्गणः–काकोलीक्षीरकाकोली-जीवकर्षभकमुद्रपर्णीमाषपर्णी मेदामहामेदाच्छिन्नरुहा-कर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकवृिद्धिमृद्वीकाजीवन्त्यो मधुकश्चेति । काकोल्यादिरयं पित्त-शोणितानिलनाशनः । जीवनो अन्यो वेति आर्तव लक्षगव्यतिरिक्तः। अत्रापि केविदित्युकम्, तथाप्यप्रतिषेधादाचार्य्यस्यापि एतत् सम्मतं किञ्चिदविशेपमिति ॥ २१॥ चक्रपाणि:-अत्र 'विशेष'शब्देन गर्भव्याध्यन्तरापेक्षया चिकित्सितविरेपो ज्ञयः! स.
For Private and Personal Use Only