SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६२ चरक-संहिता। जातिसूत्रीयं शारीरम् शुङ्गानि वा पाययेदेनामाजेन पयसा। पयसा चैनां बलातिबलाशालिषष्टिकेतुमूल-काकोलीभृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतं भोजयेत्। लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्यां भोजयेत्। तथा क्रोधशोकायासव्यवायव्यायामतश्चाभिरक्षेत् । सौम्याभिश्चैनां कथाभिर्मनोऽनुकूलाभिः उपासीत। तथास्या गर्मस्तिष्ठति ॥२०॥ .. यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात् प्रायस्तस्यास्तद्गर्भबाधकं भवति विरुद्धोपक्रमत्वात् तयोः। यस्याःपुनरुष्णतीक्ष्णोपप्रियङ्गुधान्यम् । एषां कल्कं पाययेदाजेन पयसा च्छागदुग्धेन। पयसा चेत्यादिबलादीवन्तानां मूलं काकोलीनां कल्केन पयोऽष्टमांशेन चतुर्गुणजलेन भृतेन पक्वेन पयसा मृदुसुरभिशीतं न तु स्पौष्णं रक्तशालीनामोदनं समधुशर्करं भोजयेत्। लावेत्यादि-लावादीनां मांसं सलिले पत्तवा रसं निष्पाद्य घृतेन संस्कृत्य तेन रसेन वा सुखादिदेशस्थामेनां गर्भिणी रक्तशालीनामोदनं समधुशर्करं भोजयेत्। क्रोधादितश्चाभिरक्षेत् क्रोधादिकं कत्तुं वास्येत् । सौम्याभिर्वात्सल्यवतीभिः। तथास्या उक्त कारणास्याश्चतुर्थादिमासेषु पुष्पदर्शनेऽपि पुष्पप्रवृत्तिनिवृत्तौ गर्भस्तिष्ठति ॥२०॥ . . . गङ्गाधरः-अथामान्वयात् पुष्पदर्शने किं स्यादित्यत आह-यस्याः पुनरित्यादि। आमस्वपक आहारस्तस्यान्वयोऽनुबन्धस्तस्माद् यस्याः पुष्पदर्शनं स्यात् प्रायस्तस्यास्तत् पुष्पदशनं गर्भवाधकं भवति। कुत इत्यत आहविरुद्धत्यादि । विरुद्धोपक्रमखन्वत्र पुष्पप्रवृत्तिनिवारणार्थ मधुरशिशिराप्रपचार उपक्रमः, स चामे विरुद्धो भवति। आमो हि मधुरशिशिरादिगुणो भवति तेन वद्धते इति। लघुरुक्षोष्णादुरपचारस्वामे उपक्रमः, स च पुष्पप्रवृत्तौ विरुद्धः । पुष्पं हि रुक्षोष्णादिगुणं तेन वर्द्धते प्रवर्तते च । इति विरुद्धोपक्रमलादामान्वयात् पुष्पदर्शनं गर्भिण्या गर्भबाधकरं भवतीत्यर्थः। यस्याः पुनरित्यादि-यस्याः : चक्रपाणिः-आमान्वयादिति आमजनकहेतोः सकाशादित्यर्थः। विदोपक्रमस्वादिति गर्भस्रावे हि स्तम्भनं कर्त्तव्यम्, तश्च शीतं मृदु मधुरच, तच्चैतदामविरुद्धमामजनकत्वादिति विरुदोपक्रमता । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy