________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२०६१ अधो नाभः प्रदिह्यात्। सर्वतश्च गव्येन चनां पयसा सुशीतन मधुकाम्बुना वा न्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः। उदकं वा सुशीतमवगायेत्, क्षीरिणां कषायद्रुमाणाञ्च स्वरसपरिपीतानि चेलानि ग्राहयेत्। न्यग्रोधादिसिद्धयोर्वा क्षीरसर्पिषोः पिचं ग्राहयेत् अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलञ्च क्षीरसर्पिः। पद्मोत्पलकुमुदकिअल्कांश्च अस्यै समधुशर्करान् लेहाथ दद्यात् शृङ्गाटकपुष्करवीजकशेरुकान् भक्षणार्थम् । गन्धप्रियङ्गसितोत्पलशालूकोडम्बरशलाटुन्यग्रोधआप्लाव्य स्थापयेत् । तस्यास्तथेत्यादि । नाभेरधः प्रदिह्यात् । सर्वतश्च शिरः. प्रभृति साडं सुशीतेन पयसा सुशीतेन मधुकाम्बुना वा सुशीतेन न्यग्रोधादिकपायेण वा परिषेचयेत्। न्यग्रोधादिस्तु प्रसिद्धः-न्यग्रोधोडुम्बराश्वत्थप्लक्षमधूककपीतन-ककुभाम्रकोषाम्रचोरकपत्र-जम्बूद्वय-पियाल-मधुकरोहिणीवजुलकदम्बबदरीतिन्दुकीसल्लकीलोधसावरलोधभल्लातकपलाशा नन्दीक्षश्चेति । न्यग्रोधादिगणो व्रण्यः संग्राही भग्नसाधकः। रक्तपित्तहरो दाह-मेदोघ्नो योनि. दोपहत् ॥ इति। अधो नाभेरित्यादि नाभेरधोदेशपर्यन्तम्। उदकं वेत्यादि । क्षीरिणाञ्चेति । क्षीरिणः प्रसिद्धाः वटोडुम्बराश्वत्थप्लक्षकपीतनाः पश्च। स्वरसपरिपीतानि सीरिणां वल्कलस्वरसेन चेलखण्डानि भावयिता योनावभ्यन्तरतो ग्राहयेत्। न्यग्रोधादिसिद्धयोरित्यादि। उक्तन्यग्रोधादिगणस्य क्षीरादष्टमांशकल्केन चतुर्गुणजलेन सिद्धस्य क्षीरावशेषपकस्य क्षीरस्य पिचुं तत्क्षीरभाविताप्लुततूलकं किंवा न्यग्रोधादेः कल्केन पादिकेन चतु गुणेन जलेन सिद्धस्य सर्पिषः पिचु तत्सर्षिषाप्लुततूलक योनावन्ताहयेत् । अतश्चेति। न्यग्रोधादि सिद्धात् क्षीराद वा सर्पिषो अक्षमात्र तोलकद्वयम्। केवलमेव क्षीरसर्पिः क्षीरोत्थं घृतमसाधितम् । पद्मोत्पलेत्यादि। पद्मादीनां त्रयाणां किञ्जल्कान् । शृङ्गाटकेत्यादि । पुष्करवीज पद्मवीजम्। गन्धप्रियनित्यादि। गन्धप्रियतर्गन्धद्रव्यविशेषः प्रियङ्गर्नाम, न तु यष्टीमधुकसर्पिः । चेलानि ग्राहृयेदित्यत्र योनिमिति शेषः । अतश्चैवेति न्यग्रोधादिशुङ्गात्। किंवा क्षीरसर्पिष इत्यस्मिन् पाठे क्षीरोत्थितं सर्पिः क्षीरसर्पिः ॥ १८---२० ॥
For Private and Personal Use Only