________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६०
चरक-सहिता।
[जातिसूत्रीयं शारीरम्
स्थास्यतीति विद्यात्। अजातसारा हि तस्मिन् काले भवन्ति गर्भाः। सा चेञ्चतुष्प्रभृतिषु मासेषु क्रोधशोकासूयेाभयत्रास-व्यवायव्यायाम-संक्षोभसन्धारणविषमाशनशयनस्थानक्षुत्पिपासायतियोगात् कदाहाराद्वा पुष्पं पश्येत् तस्या गर्भस्थापनविधिमुपदेच्यामः ॥ १६ ॥ __ पुष्पदर्शनादेवैनां ब्रू याच्छयनं तावन्मृदुसुखशिशिरास्तरणास्तीर्णमीषदवनतशिरस्क प्रतिपयस्वेति। ततो यष्टीमधुकसर्पिभ्यां परमशिशिरवारिणि संस्थिताभ्यां पिचुमालाव्योपस्थसमीपे स्थापयेत् । तस्यास्तथा शतधौतसहस्रधौताभ्यां सर्पिाम् गर्भिणी चेद् यदि द्वयोर्मासयोस्त्रिषु वा मासेषु । ननु त्रिषु मासेष्वित्युक्ताव प्रथमद्वितीयतृतीया मासा लभ्यन्ते, कथं पुनः द्वयोरित्युक्तमिति चेन्न । प्रथममासे हि पुष्पदर्शने गर्भासम्भव एव तत् कथं गर्भिणीति व्यवस्यते। तस्मात् प्रथममासे गर्भिण्याः पुष्पदर्शनस्यासम्भव इति ख्यापनार्थं त्रिष्विति वचनं न त्रिमासबोधकं किन्तु तृतीयमासपरं, सुतरां द्वयोरिति वक्तुमावश्यकं भवति, तेन द्वयोरिति च पदं द्वितीयमासपरमिति बोध्यम् । पूरणार्थप्रत्ययलोपो वा। ननु कुतोऽस्या द्वितीयमासे तृतीयमासे वा पुष्पदशिन्या गर्भिप्या गर्भो न स्थास्यतीत्यत आह-अजातसारा हीत्यादि। न जातं सारं स्थिरांशो येषां तेऽजातसारा गर्भाः, हि यस्मात् तस्मिन् काले द्वितीये तृतीये च मासे भवन्ति तस्मादस्या गर्भो न स्थास्यति। ननु चतुष्प्रभृतिमासेषु यदि पुष्पं पश्येत् तदा किं स्यादित्यत आह-सा चेदित्यादि। क्रोधाद्यपचाराद यदि चतुर्थादिषु मासेषु पुष्पं पश्येत् तदा प्रतिक्रिययास्या गमः स्थास्यतीत्यतस्तस्या गर्भस्थापनविधिमुपदेक्ष्यामः ॥१९॥
गङ्गाधरः-पुष्पेत्यादि। पुष्पदर्शनाच्चतुर्थादिषु मासेषु पुष्पं दृष्ट्वा प्रथममेनां गर्भिणी ब्रयात् मृदुसुखशिशिरास्तरणास्तीर्ण शयन शय्यामीषदवनतशिरस्कं यथा स्यात् तथा प्रतिपद्यस्वेति । तथा प्रतिपन्नाया गर्भिण्या उपस्थसमीपे योनिद्वारे परमशिशिरवारिणि संस्थिताभ्यां यष्टीमधुकसर्पिभ्या पिचुं विस्तृततूलकम् सन्धारणं वेगसन्धारणम् । कदाहारः कुत्सिताहारः। शिशिरं शीतम्। यष्टीमधुकसिद्धं सपिः
For Private and Personal Use Only