________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः शारीरस्थानम् ।
२०८४ कारिभिर्वोपचारः स्यात्। पूर्णमिव तैलपात्रमसंक्षोभयित्वान्तवनी भवत्युपचा ॥ १८॥ ___ सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्यं पश्येन्नास्या गर्भः तदा सहखे मृदुभिर्वमनादिभिरुपचारः। असहखे तु वमनाद्यनुकारिभिनिष्ठीवनकवड़ादिभिरुपचारः स्यादित्यर्थः। कस्माद् एवमुपचार इत्यत आह–पूर्ण मिवेत्यादि। यथा पूर्ण तैलपात्रम् अक्षोभयित्वा उपचय तथान्तवत्री स्त्री असंक्षोभयिखा उपचर्या भवति । संपूर्वकवेऽपि नपूर्वकखात् न क्त्वो ल्यप् इति असंक्षोभयित्वेति पदं साधु । सुश्रुतेऽप्युक्तम् । अथ गभिणी व्याध्युत्पत्तावत्यये छईयेत् । मधुराम्लेनान्नोपहितेनानुलोमयेच्च। संशमनीयञ्च मृदु विदध्यात्। अन्नपानयोरश्नीयाच मृदुवीयं मधुरपायं गर्भाविरुद्धश्च । गर्भाविरुद्धाश्च क्रिया यथायोगं विदधीत मृदुपायाः। भवन्ति चात्र । सौवर्ण सुकृतं चूर्ण कुष्ठं मधु घृतं वचा। मत्स्याक्षकः शङ्खपुष्पी मधुसर्पिः सकाश्चनम् ॥ अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा। हेमचूर्णानि कैटय्यः श्वेता दूर्वा घृतं मधु । चखारोऽभि. हिताः प्राशाः श्लोकाःषु चतुष्यपि। कुमाराणां वपुर्मेधा-बलबुद्धिविवर्द्धनाः ।। इति। तत्रान्तरेऽप्युक्तम्। ज्वरादिरोगे गर्भिण्या मृदु कु-चिकित् सितम्। तीक्ष्णं हि भेषजं तस्या गर्भपाताय कल्पते। अतो धान्यपटोलादि बुद्धा योज्यं ज्वरादिजित्। सिंहास्यादि गुडूच्यादि तथा धान्यपटोलकः । पित्तज्वरहरः काथो गर्भिण्या ज्वरशान्तये। मधु तीक्ष्णं न शंसन्ति केचिद्गर्भवतीवरे। कुशकाशोरुकाणां मूलं गोक्षुरकस्य च। शृतशीतं सितायुक्तं गर्भिण्या ज्वरदाहनुत्। चन्दनं शारिवा लोधमृद्वीका शर्करान्वितम्। काथं कृता प्रदातव्यं गर्भिण्या ज्वरनाशनम् । एरण्डमूलममृता मञ्जिष्ठा रक्तचन्दनम् । दारुपद्मयुतः काथो गर्भिण्या ज्वरनाशनः। ह्रीवेरारलुरक्तचन्दनबलाधन्याकवत्सादनी, मुस्तोशीरवरा सपर्पटविषा काथं पिवेद गभिणी। नानावर्णरुजातिसारकगदे रक्तस्र तौ वा ज्वरे, योगोऽयं मुनिभिः पुरा निगदितः मूत्यामयेषूत्तमः । आम्रजम्बूखचः काथं लेहयेल्लाजसक्तुभिः। अनेन लीढ़मात्रेण गर्भिण्या ग्रहणीं जयेदिति ॥१८॥
गङ्गाधरः इति गर्भिण्या व्याधिप्रतिक्रियामुक्त्वा गर्भिण्या अपचारादिना गर्भोपघातारम्भे पुनरार्त्तवपत्तौ तत्प्रतिकारार्थमाह-सा चेदित्यादि। सा कारिभिर्वेति यथा वमनार्थकारि निष्ठीवनम्, विरेचनानुकारिणी फलवर्तिरित्यादिभिरुपचारः कर्त्तव्यः।
२६२
For Private and Personal Use Only