________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८८
चरक-संहिता। [ जातिसूत्रीय शारीरम् ___व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायरौषधाहारोपचाररुपचरेत्। न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, न रक्तमवसेचयेत्, सर्वकालञ्च नास्थापनमनुवासनं वा कुर्य्यादन्यत्रात्ययिकाद व्याधेः । अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिःतदनुविशेषतस्तु गर्भिणी प्रथम द्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत । विशेषतस्तु तृतीये पष्टिकोदनं पयसा भोजयेत् । चतुथ दन्ना, पश्चमे पयसा, षष्ठे सपिषा चेत्येके। चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत् । पश्चमे क्षीरसर्पिःसंसृष्टं, षष्ठे श्वदंष्ट्रासिद्धस्य सपिषो मात्रां पाययेद यवागू वा । सप्तमे सर्पिः पृथक्पादिसिद्धम् । एवमाप्याय्यते गर्भः । अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणास्थापयेत्, पुराणपुरीपशुद्धार्थम् अनुलोमनार्थश्च वायोः। ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेदनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति । अत ऊर्द्ध स्निग्धाभिर्यवागभिर्जाङ्गलरसैश्वोपक्रमेत् आप्रसवकालात् । एवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्रवा प्रसूयते इति ॥१७॥
गङ्गाधरः-अथास्या गर्भिण्या ज्वरादीनामुपक्रममाह-व्याधीश्चास्या इत्यादि। सुकुमारं क्लेशजनकवज मृद्वादयः प्राया बहुला यत्र तैस्तथा। तथा हि ज्वरादीनां व्याधीनां स्वस्खाधिकारे वक्ष्यमाणा ये खौषधाहारोपचारास्तेषु मध्ये ये खौषधाहारोपचारा मृदुमधुरशिशिरसुखसुकुमारमायास्तैज्वराधिकारोक्तरस्याः गभिष्या ज्वरमुपचरेत् रक्तपित्ताधिकारोक्त रक्तपित्तमित्येवं यथास्वाधिकारोक्तैम द्वाद्यौषधाहारोपचारैरस्याः सर्वान् व्याधीनुपचरेदित्यर्थः। न चेत्यादि स्पष्टम् । न रक्तमित्याद्यपि स्पष्टम्। अन्यत्रेति अष्टममासादिषु विधेयतया वक्ष्यमाणादन्यत्र। अष्टमं मासमित्यादि। यदि चाष्टमादिमासेषु वमनादिकं विना न साध्यव्याधिप्रशमस्तदा आशुपतिकारार्थ वमनादिकं न विधे. यम्। यदि चात्ययिकश्च व्याधिः स्याद्वमनादिभिरेव साध्यो न तु शमनादिभिः रूपा व्याधयो भवन्तीत्यर्थः। 'स्त्री विशेषेण' इत्यनेन पुरुषोऽपि वर्जयेदिति दर्शयति। साध्वा. चारेति मङ्गलाचारशीला ॥ १६॥१७॥ चक्रपाणि:-मृदुभिर्वमनादिभिरिति मृद्रव्यगतैरल्पमात्रैश्च वमनादिभिरित्यर्थः। तदर्थ
For Private and Personal Use Only