________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२०६५ सर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतं भोजयेत्। तैलाभ्यङ्गनास्याश्चाभीक्ष्णमुदरबडनणोरकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत् ॥ २३ ॥ ___ यस्याः पुनरुदावर्त्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्यते, ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम् । उदावतॊ ह्य पेक्ष्यो गर्भ सगी गर्भिणी वा निपातयेत् । तत्र वीरण-शालि-पष्टिक-कुश-काशेक्षुबालिका-वेतसपरिव्याधमूलानां भूतीकाऽनन्ताकाश्मयंवरूषकमधुकमृद्वीकानाश्च पयसाझेदकेन उद्गमय्य रसं पियालविभीतकमज तिलकल्कसंप्रयुक्तम् ईषल्लवणम् अनत्युष्णञ्च निरूहं दद्यात्। व्यपगतविबन्धाञ्चैनां सुखसर्पिषा हस्खमूलकयूपेण वा रक्तशालीनामोदनं भोजयेत्। अस्या नागोदरिया उदरं वङ्क्षणादिप्रदेशांश्च ईषदुष्णेन तैलाभ्यङ्गेनाभीक्ष्णमुपचरेत् ॥२३॥
गङ्गाधरः-यस्या इत्यादि। न चानुवासनसाध्यं मन्यतेऽर्थात् तमुदावतविबन्धम् । अत्रायं भावः। अनुवासनसाध्यो यदुरदावर्तविबन्धः स्यात् तदानुवासयदेनाम् । यस्यारखनुवासनसाध्यं न मन्यते तदा तस्या उदावतेविवन्धिन्या अष्टममासगर्भिण्यास्तविकारस्य उदावत विवन्धस्य प्रशमनो यो निरूहः साधुर्भवति तं निरूहमुपकल्पयेत् । कुत इत्यत आह-उदावत इत्यादि। हि यस्मात् । उदावतः न प्रतिकृत्य उपेक्ष्यः सन् सगभांगर्भसहितां गर्भिणी नारौं निपातयेत् मारयेत्, गर्भ वान्तर्गर्भाशये निपातयेत् । तस्मादुदावत्तप्रशमनं निरूहम् उपकल्पयेत् । निरूहद्रव्यमाह-तत्रेत्यादि। वीरणमुशीरम् इक्षुबालिका नटाइ इति लोके । परिव्याधः जलवेतसः । एषां मूलानाम् । भूतीकं यमानी । भूतीकादीनाश्च रसं काथम् अद्धौंदकेन पयसा मिलिखाष्टगुणेन वीरणादीनां मूलानि भूतीकादीनि च पक्त्वा पादावशेष रसं काथमुद्गमय्य उद्गतं कृता तं काथं पियालविभीतकयोमंज-तिलानां कल्कैः संप्रयुक्तं सम्यगालोड़नेन प्रकर्षण युक्तम् ईपल्लवणमल्पसैन्धवयुक्तमनत्युष्णमीषदुष्णं कृला निरूह गुदेन पथा आस्थापनसुबुभुक्षायाः। न चानुवासनसाध्यं मन्येत इति सामावादावर्तस्येति नानुवासनसाध्यो भवतीति ज्ञेयम् । तद्विकारप्रशमनमिति उदावर्त्तप्रशमनमित्यर्थः । उदावर्त्तप्रशमनं निरूहमाह-तत्रेत्यादि ।
For Private and Personal Use Only