________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम्।
२०७७ सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापित. सत्त्वान्यन्तवलाः श्रुतयश्च अभीक्ष्णं स्वोचितश्च कर्म सत्त्वविशेषाभ्यासश्चेति। यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोस्तु मिश्रीभावमापन्नयोः शुक्र शोणितेन सह समेत्याव्यापन्नमव्यापन्नेन योनावनुपहतायाम् अप्रदुष्टे गर्भाशये दातवण उच्यते। तथा च उदकैकातुबहुलः पाञ्चभौतिकश्चेत् तेजोधातुस्तदा हरिद्राभगौरवर्णकरः स्यात्, आकाशबहुलस्तु पालाशाभहरितवर्णकरः स्यात् । पृथिवीबहुलस्तु पकनम्बूपमकृष्णवर्णकरः स्यात्, वायुबहुलस्तु रुक्षकृष्णवर्णकरः स्यानीलवर्णकर इत्यर्थः। तदुभयबहुलस्तु कज्जलवर्णकरः स्यात् । पृथिव्याकाशवहुलस्तु कृष्णश्यामवर्णकरः स्यात् । एवं वर्णभेदा उन्नेयाः॥११॥
गङ्गाधरः-ननु वर्णविशेष एवं भवतु सत्त्वविशेषस्तु किं ततत्कर्मणा स्यादित्यत आह-सत्त्वेत्यादि। तेषां तेषां प्राणिनां सत्त्ववैशेष्यकराणि पुनर्मातापितृसत्त्वानि गर्भारम्भकशुक्रशोणितसंसर्गकाले मातुः पितुश्च यदगुणबहुलं मनः स्यात् तद्गुणबहुलं तयोः पुत्रदुहितोमनः। अन्तर्वना गर्भिण्याः अभीक्ष्णं सततं यादृशगुणबहुलगाथाख्यायिकापुराणवेदादिविषयाणां श्रुतयः श्रवणानि, स्वोचितश्च कर्म जन्मान्तरे स्वेनात्मना उचितं स्वक्रियया समवेतं यत् कर्म धर्माधर्मरूपम्। सत्त्वविशेषस्य शुद्धस्य राजसस्य तामसस्य वा तत्प्रभेदब्राह्मयादिरूपेणाभ्यासः सततक्रियया। एतानि सत्त्ववैशेष्यकराणि तेपां तेषां प्राणिनां भवन्तीत्यर्थः। ___ अथाव्यभिचारेणापत्यजन्महेतुमाह--यथोक्तेनेत्यादि। यथोक्तेन उक्तरूपेण विधिना। भिश्रीभावं संसर्ग शुक्रमव्यापन्नं पुरुषस्य शुक्रमव्यापन्नेन स्त्रियाः शोणितेन समेत्य संयोगमेत्यानुपहतायां स्त्रिया योनौ चाप्रदुष्टे च च वर्तते। वर्णविशेषहेतुमभिधाय सवभेदहेतुमाह-सवेत्यादि। मातापितृसत्त्वानीति मातापित्रनुकारेण सत्वानि प्रायः प्रभावादेव भवन्ति । अन्तर्वली गर्भिणी। श्रुतयश्चाभीक्ष्णमिति यथा गर्भिणी गीतादि शृणोति, तथासत्वमपत्यं जनयति । स्वोचितञ्च कर्मेति गर्भेणोपार्जितं कर्म स्वबलानुरूपं सत्त्वं जनयति। सत्त्वविशेषाभ्यासश्चेति यथाविधं सत्वं पुरुषोऽभ्यस्यति जन्मान्तरे, तत्सत्त्व एव जायते। वचनं हि-"जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तच्चाप्यभ्यस्यते पुनः ॥” इति ।
For Private and Personal Use Only