________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७६
चरक-संहिता। (जायिसूत्रीयं शारीरम् पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायः श्यामवर्णकरः ॥११॥ रसवैशेष्यकरः। यथापोऽव्यक्तरसास्तथा तेजोऽव्यक्तरूपं स्वरूपतः। ननु केन भूतेन सह योगे वर्णविशेषकर इत्यत आह-उदकेत्यादि। तेजोधातुः वर्णकरः स च तत्तदवयवारम्भकद्रव्यारम्भकः पाश्चभौतिक एवाधुना वत्तेते तेन तत्तदवयवारम्भकाले तत्पकृतिभूतद्रव्यगतस्तेजोधातुर्यदि उदकान्तरीक्षधातुमायो जलाकाशोभयधातुबहुलः पाश्चभौतिको भवति, तदा अवदातवर्णकरः शुक्लवर्णकरः स्यात्, उदकं हि पाञ्चभौतिक शुक्लमाकाशश्च विशदं, तदुभययोगेन अन्यतरत्वं तेजसोऽव्यक्तवर्णः श्वेतवेनाभिव्यज्यते । यथाब्धातोरव्यक्तरसो भूमियोगेन मधुरखेनाभिव्यज्यते । एवं स च तेजोधातुर्यदि पृथिवीवायुधातुमायः पृथिवीगुणवायुगुणबहुलः पाश्चभौतिकः स्यात् तदा कृष्णवर्णकरः स्यात्, पृथिवी हि कृष्णवर्णा पाश्चभौतिकी, पाञ्चभौतिकश्चाधुना वायुविशदोऽपि खरचलत्वेन भूतान्तरयोगात् कृष्णषणेकरः, तद्वययोगेन तेजसोऽव्यक्तवर्णः कृष्णत्वेन अभिव्यज्यते। एवं षड्रसवत् द्वौ वर्णी विशेषेण भेदकभूतभिन्नौ भवतः । पुनस्तयोस्तारतम्येन रक्तपीतारुणादयो बहवो वर्णा भवन्ति। उक्तश्च सुश्रुते-तत्र तेजोधातुः सर्ववर्णानां प्रभवः । स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भ गौरं करोति, पृथिवीधातुमायः कृष्णम्, पृथिव्याकाशधातुमायः कृष्णश्यामम्, तोयाकाशधातुपायो गौरश्यामम्। यादृगवर्णम् आहारमुपसेवते गर्भिणी तादृगवर्णप्रसवा भवतीत्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति। तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं श्वेताक्ष, वातानुगतं विकृताक्षमिति। अत एव समसर्वधातुमायो यदि तेजोधातुर्भवति तदा श्यामवणकरः स्यात् । श्यामस्तु खलु तुल्यांशेन शुक्लकृष्णयोर्मिश्रीभावे सत्युपलभ्यते यो वर्णः, स एव द्विविधः सुश्रुते हुक्तः-कृष्णश्यामः गौरश्यामः। पृथिवी हि कृष्णा खन्तु विशदं शुक्लकर, तयोर्द्वयोः संयोगे तेजसोऽध्यक्तवर्णः कृष्णाधिकश्यामत्वेन अभिव्यज्यते। तोयं शुक्लमाकाशश्च विशदं शुक्लकारणं तयोश्च द्वयोः संयोगे तेजसोऽव्यक्तवर्णो गौराधिकश्यामत्वेनाभिव्यज्यते इति तु तत्रकृतिनानेनाव
चकपाणिः-वर्णविशेषकरं हेत्वन्तरमाह-न तु खल्वित्यादि। तेजोधातुः कृष्णवर्णे श्यामवर्णे
For Private and Personal Use Only