________________
Shri Mahavir Jain Aradhana Kendra
८म अध्यायः
www.kobatirth.org
शारीरस्थानम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२०७५
तां पुत्राशिषमनुनिशम्य
पुत्रमाशासीत, तस्यास्तस्यास्तां तांस्तान् जनपदान् मनसानुपरिक्रामयेत् । ततो या या येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत, सा सा तेषां तेषां जनपदानां मनुष्याणामाहारविहारोपचारपरिच्छदाननुविधीयस्वेति वाच्या स्यात् । इत्येतत् सर्व्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति ॥ १० ॥
न खलु केवलमेतदेव कर्म्म वर्णानां वैशेष्यकरम् ; अपि तु तेजोधातुरभ्युदकान्तरीचधातुप्रायो ऽवदा तवर्णकरो भवति ।
पुत्रापिं पुत्रकामनाम् अनुपरिक्रामयेन्मनसा चिन्तयेत् । मनसाऽनुपरिक्रम्य विचिन्त्य या या नारी येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत कामयेत, सा सा तेषां तेषां जनपदानां मनुष्याणामाहारादीन अनुविधीयस्व भो भो अनुकुरुष्वेति ऋत्विजा वाच्या स्यात् । छान्दसत्वात् कर्त्तरि तविकरणे । अथवा अनुविधाने द्विकम्वत् । तत्रैकं कर्माहारविहारोपचारपरिच्छदानिति, द्वितीयं भो नारि पुत्रकामे खमिति । एतत् तु युष्मत्कर्त्तरि वाच्ये तविकरणे, कर्त्ता खमिहास्ति । तत्तज्जनपदीयाहाराद्यनुविधाने नाय्र्याः स्वातन्त्रात् परन्तु त्रिगुपदेशेन हेतुना तदाहाराद्यनुविधानाचरणात् फलाश्रयकर्मकत्वं तत्तुल्यक्रियावत्त्वेन स्वातनात् तु कम्मकर्त्ता कर्म्मवत् । अन्तरधीयतेतिवत् । समृद्धिकरं पुत्रेच्छानां परिपूरणकरम् ॥ १० ॥
arada कणा किं शुक्लश्यामकुष्णादिरूपवन्तः पुत्रा भवेयुरुत कारणान्तरमस्तीत्यत आह-न खल्वित्यादि । केवलमुक्तं यावत् कम्मैव वर्णवैशेष्यकरं न खलु भवति । अपि तु शुक्लादिवर्णवैशेष्ये उक्त कम्मवदन्यदपि कारणमस्ति तत् किमित्यत आह तेजोधातुरपीत्यादि । तैजसो हि वर्णस्तस्मात् तेजोधातुर्वर्णकरो यथाप्यो रसो रसकरचान्धातुरिति तत्र भूतान्तरयोगो वर्णस्य वैशेष्यकरो भवति यथा--भूतान्तरयोगोऽधातोः
For Private and Personal Use Only
कर्त्तव्य इति वाक्यार्थः । शुद्धाविधानमाह शूदा वित्यादि । नमस्कारमेव कुर्य्यादिति शूद्राया मन्त्रे होमे वानधिकारात् नमस्कारमात्र करणम् ॥ ८-१० ॥