________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७४
चरक-संहिता। ( जातिसूत्रीय शारीरम् पुमान् पश्चात् स्त्री। न चोच्छिष्टमशेषयेत्। ततस्तौ सह संवसेताम् अष्टरात्रं तथाविधपरिच्छदावेव च स्यातां तथेष्टपुत्रं जनयेताम् ॥ ६॥ ___ या तु स्त्री श्यामं लोहिताचं व्यूढोरस्कं महाबाहुश्च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् । एष एवानयोरपि होमविधिः । किन्तु परिवों वर्णवज स्यात्, पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिवोऽन्यः कार्य: स्यात् । द्विजेभ्यः शूद्रा तु नमस्कारमेव कुर्याद देवगुरुतपस्विसिद्धेभ्यश्च । या या च यथाविधं पश्चात् स्त्री पूर्व भ" उच्छिष्टं चरुशेषं न रक्षेदित्यर्थः। ततः परं तौ पुना रात्री सह संवसेतां संसर्ग कुर्याताम् । अष्टरात्रमष्टमाहम् आरभ्याप्टरात्रं पञ्चदशरात्रं यावदित्यर्थः । तथाविधपरिच्छदावेव उक्तप्रकारपरिच्छदावेव । तथेष्टपुत्रं तत्प्रकारमिष्टं पुत्रं जनयेतां न खन्यविधपरिच्छदौ स्त्रीपुरुषो॥९॥
गङ्गाधरः-- नन्वन्यविधपुत्रमिच्छन्ती किमाचरन्ती जनयेदित्यत आह----या खित्यादि । व्यढोरस्कं व्य ढं विपुलोजस्वद उरो वक्षो यस्य तं तथा। एवं तृतीयविधपुत्रान्तरप्रकारमाह या वेत्यादि । श्यामकृष्णयोर्भेदस्तु श्चतकृष्णयोमिश्रीभावे यदरूपं तत् श्यामम् । कृष्णस्तु प्रसिद्धः। आत्मवन्तमित्यन्तस्य आशासीतेत्यनेन पूर्वणान्वयः। अनयोरपि द्वयोः पुत्रविशेषाविच्छन्त्योरेष एवोक्तः शुक्लवर्ण पुत्रकामाया एव होमविधिः कार्य्यः। ननु वर्णादिभेदः कुतः स्यादित्यत आह-किन्वित्यादि। वर्णवज्ज परिवहः परिच्छदः स्यात यवमन्थाद्याहारशुक्लचासोऽलङ्करणादिवर्जमस्याः पुत्रवर्णानुरूपः। श्याम पुत्रमिच्छन्त्याः श्यामः, कृष्णं पुत्रमिच्छन्त्याः कृष्णः । यथाशीर्यथाकामं परिवहः पानाशनवसनभूषणगृहशयनासनादुपसेवनरूपः परिच्छदः कार्यः। शूद्रा खित्यनेनापकर्षवर्णा तृत्कर्षवर्णभ्यो द्विजेभ्यो नमस्कारं कुर्यात् ।
अथानुक्ततावत्प्रकारपुत्रजननप्रकरणमाह--या या चेत्यादि । ऋक। पाकमिति चरुम् । अभिधायेति मिश्रीकृत्य। यथाम्नायमिति यथावेदम्। किन्तु परिवर्हवर्जमिति परिवहः शयनासनपुष्पादिपरिच्छदः । तेन यथाविधा पुत्रेच्छा तथावर्णपरिवहः
For Private and Personal Use Only