________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२०७३ ततः पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपवेश्यान्वालभेत सह भर्ता यथेष्टं पुत्रमाशासाना। ततस्तस्या आशासानाया ऋत्विक प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वपेत्-विष्णोनि कल्पयतु इत्यनयर्चा। ततश्चैवाज्येन स्थालीपाकमभिसंसायं त्रिर्जहुयात् यथाम्नायं मन्त्रोपमन्त्रितमुदयात्रं तस्यै दद्यात् । सवोदकार्थान् कुरुष्वेति। ततः समाप्ने कर्मणि पूर्व दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनु परिकामेत्। ततो ब्राह्मणान् स्वस्ति वाचयित्वा सह भर्ताज्यशेष प्राश्नीयात् पूर्व मन्त्रपूतमुदकपात्रं प्रणीय। आज्याथ होमाईघृतमाज्यं तदर्थ, सर्पिः संस्कृत्य । यथोक्तवर्णान् आशासीत पुत्रवर्णीयवर्णयुक्तान् आजानेयादीन् पूर्वोक्तकुलीनावादीन समन्ततश्चतुर्दिक्षु वेद्याः स्थापयेत् ॥८॥
गङ्गाधरः-तत इत्यादि। ततः पुत्रकामा सह भर्ता यथेष्टं स्वाभिमतं पुत्रमाशासाना वाञ्छन्ती सती अग्निं पश्चिमतो 'दक्षिणतो ब्राह्मणम् उपवेश्यान्वालभेत पलाशादिशाखाभिरिष्ट्वा लाजादिभिरुपकिरेत्। तस्याः पुत्रमाशासानायाः प्रजापतिमभिनिद्दिश्य ऋषिक तस्या एव नार्या योनौ कामयामिष्टिं "विष्णुोनि कल्पयतु” इत्यनयर्चा कामपूरणार्थ निर्वपेत् । ततश्चानन्तरं स्थालीपाकं चरुम् आज्येन सर्पिषाभिसंसार्य मिश्रीकृत्य यथाम्नायं यथावेदं यस्या यदवेदीययच्छाखा तस्यास्तद्वेदीयतच्छाखोक्तमत्रोपमत्रितं प्राक्प्रणीतमुदकपात्रं तस्यै दद्यात् । किमर्थं दद्यात् ? सौदकार्थान अनेनोदकेन कुरुष्वेति ब्रुवस्तस्यै दद्यादिति । तत इत्यादि। याने चर्मभ्युपविशेदिति शेषः। रुरुहरिणविशेषः। परिधिभिरिति चतुर्भिः पलाशवृहद्दण्डैः । परिधायेति वेष्टयित्वा परिहितान्येव। पूतं मन्त्रपूतम्, तच्चोदपात्रविशेषणम् । उपसंस्कृत्येति तदपात्रमेव संस्कारमन्त्रैरुपसंस्कृत्य। सर्पिराज्यार्थमिति नवनीतं घृतार्थम् । किंवा सर्पित. मेव, आज्यार्थमिति मन्त्रपूतघृतकरणार्थम्। 'आज्य'शब्देन मन्त्राभिमन्त्रितं घृतमुच्यते। पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमिति यथा पूर्वेणाग्निर्वामे च ब्राह्मणो भवति तथेत्यर्थः । अनुलभेतेति ऋत्विक्प्रयुक्ता ऋत्विगविधानमनुकुर्यादित्यर्थः। प्रजापतिमभिनिदिश्येति ब्रह्माणमभिमन्त्रा। योनौ कामपूरणार्थमग्नाविष्टिं निर्बपेदिति कुर्यात् । इष्टिोनिशोधिका । इष्टिसाधिका
For Private and Personal Use Only