________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७०
चरक-संहिता। जातिसूत्रीयं शारीरम् पुमान्, वामपादेन स्त्री चारोहेत् । तत्र मन्त्रं प्रयुञ्जीत । अहिरसि आयुरसि सर्वतः प्रतिष्ठासि धाता त्वा दधातु विधाता त्वा दधातु ब्रह्मवर्चसा भवेदिति।
ब्रह्मा वृहस्पतिर्विष्णुः सोमः सूर्यास्तथाश्विनौ ।
भगोऽथ मित्रावरुणौ पुत्रं वीरं दधातु मे ॥ इत्युक्त्वा संवसेयाताम्। सा चेदेवमाशासीत वृहन्तमवदातं हर्यक्षमोजविनं चिं सत्त्वसम्पन्नं पुत्रमिच्छेयमिति॥६
शुद्धस्नानात् प्रभृत्यस्यै मन्थमवदातं यवानां मधुसर्पिभ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसालोडय राजते कांस्ये
सुखकरं मनोज्ञश्च शयनमुपकल्प्य संजातहषौं सम्यकपरस्परालिङ्गन-चुम्बनदर्शन-कटाक्ष विक्षेपण-स्मित-हसित-संलाप-लपित-धनजघनस्तनोपम दितादिभिः जातो हाँध्वजोच्छाययोनिस्फुरणादिलक्षणो ययोस्तौ मैथुने चानुकूलौ परस्परसम्मतौ सन्तौ पुमान् वामपान स्त्री तु दक्षिणपान परस्पराभिमुखं शयिता दक्षिणपादन पुमान् स्त्रिया दक्षिणपादमारोहेत् । वामपादन स्त्री तं वदक्षिणपदारूढ़ पुसो दक्षिणपदमारोहेत् । यद् वा निरुक्तरूपेण संजातहषों मैथुने चानुकूलो हितं मात्रावदशिखा इष्टगन्धादिकं शयनं शय्यामुपकल्प्य दक्षिणपादेन पुमानारोहेच्छयनं ततः स्त्री च तच्छयनं वामपादेनारोहेत् इत्यर्थः। तत्रारोहणे मन्त्रमिमं प्रयुञ्जीत पठेत्। मन्त्रस्तु अहिरसीत्यादि। सा चेदित्यादि। हर्यक्षं सिंहमिव सत्त्वसम्पन्नं सत्त्वसारम् ॥६॥
गङ्गाधरः--शुद्धस्नानादित्यादि। यवानां मन्थं स्नानात् प्रभृत्यस्यै प्रातः पानाय प्रयछेत् । मन्थं विकृणोति-यवानामवदातं तुपादिमलरहितखेनावदातं सत्तुकं मधुघृताभ्यां संसृज्य संसृष्टं वृ.खा सरूपवत्सायाः समानवर्णवत्सायाः श्वेताया गोः पयसालोड्य। भुञ्जीतेति मध्याह्न, तथा
चक्रपाणिः-आरोहेत् शयनमिति सम्बन्धः। 'अहिरसीत्यादि दधातु मे' इत्यन्तो मन्त्रः। हर्यक्षं सिंहविक्रमम् । तेनोपादेयमेवेत्याह-इच्छेयमिति। इच्छेयमित्यनेकार्थत्वाद् धातूनां लभेयमित्यर्थः, तेन 'आशासीत' इत्यस्य 'इच्छेयम्' इत्यनेन न पौनरुक्तपमिति व्याख्यानयन्ति ॥६॥
For Private and Personal Use Only