________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
२०७१ वा पात्रे काले काले सप्ताहं सततं प्रयच्छेत् पानाय। प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत तथा सायम् अवदातशरणशयनासनपानवसनभूषणवेशा च स्यात् । सायं प्रातश्च शश्वत् श्वेतं महान्तम् ऋषभमाजानेयं वा हरिचन्दनागदं पश्येत् । सौम्याभिश्चैनां कथाभिर्मनोऽनुकूलाभिरुपासीत। सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत् । सहचर्यश्चैनां प्रियहिताभ्यां सततमुपाचरेयुः, तथा भर्ता। न च मिश्रोभावमापदायाताम् । इत्यनेन विधिना सप्तरात्रं स्थित्वा अष्टमेऽहनि आलुत्याद्भिः सशिरस्कं सह भर्ता, चाहतानि वस्त्राण्याच्छादयेदवदातान्यवदाताश्च स्रजो भूषणानि बिभृयात् ॥७ सायं भुञ्जीतेत्यन्वयः। अवदातशरणशयना शुक्लगृहे शुक्लशय्यासुप्ता शुक्लासना शुक्लपाना शुक्लबसना शुलभूषणा च स्यात्। शश्वच्छेतं सर्वतः शुक्लं महान्तमृषभं वृहदषम् आजानेयं प्रागुक्तमश्वं हरिचन्दनाङ्गदं हरिचन्दनं बाहुभूषा यस्य तं तथा। हरिचन्दनं श्वेतचन्दनम् । सौम्याभिर्वात्सल्ययुक्ताभिः कथाभिः। सौम्याकाराः सौम्यवचनाः सौम्योपचाराः सौम्यचेष्टाश्च स्त्रियो वा पुरुषा वा ये ये भवन्ति तांस्तान् पश्येत् इतरानपि चन्द्रियार्थांश्चक्षुर्लाह्यानवदातान् शुक्लानेव पश्येत् । सहचय्यः सहचरीजनाः। तथा भत्ता प्रियहिताभ्यां सततमेनामुपाचरेदित्यन्वयः। मिश्रीभावं मैथुनम् । इत्यनेनेत्यादि। सप्तरात्रमिति न स्नानात् किन्तु ऋतुप्रतित एव सप्तरात्रम्। अष्टमेऽर्थास्तुप्रत्तित एवाष्टमे वहनि । आप्लुत्य निमज्ज्य ॥७॥
चक्रपाणि:-काले काल इति सायं प्रातः। अत्र च मन्थपानस्य तथा शालियवान्नभोजनस्य च विहितत्वाभावपि मात्रया काले करणीयो । शरणं गृहम् । आजानेयमुत्तमकुलजम् । 'हरिचन्दन' शब्देन श्वेतचन्दनं विवक्षितम्। 'हरि'शब्दस्यानेकार्थत्वात् 'हरि'शब्देन श्वेतस्यैव ग्रहणं प्रशस्तत्वात् । अङ्गदोऽङ्गरागः, किंवा अङ्गदो बाहुभूषणम्। पश्येदियुपलभेत। सेन श्रोत्रमनोभ्यामपि अवदातत्त्वग्रहणं लभ्यते ॥ ७ ॥
For Private and Personal Use Only