________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
शारीरस्थानम् ।
२०६६
संजातहर्षो मैथुने चानुकूलौ इष्टगन्धं स्वास्तीर्ण सुखं शयनमुपकल्प्य मनोज्ञ' हितमशनं मात्रावदशित्वा दक्षिणपादेन पुरुषस्याप्यत्य शितत्वाद्यतिवालवादिदोषाद् गर्भानाधानहेतुत्वं विगुणप्रजाहेतुवञ्चाभिप्रेत्यातिदेशेनात्यशितादिकं पुरुषं वर्जयितुमाह-पुरुषेऽप्येत एवंत्यादि । एत एवात्यशितलादयो दोषाः । उक्तञ्चान्यत्र - अतिबालो सम्पूर्ण - सर्व्वधातुः स्त्रियं व्रजन् । अपतप्येत सहसा तड़ागमिव काजलम् ॥ शुष्कं रुक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् । संस्पृष्टमाशु जीर्खेत तथा वृद्धः स्त्रियं व्रजन् । पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् । द्वावेतौ न प्रमृयेते प्रसूयेते व्यतिक्रमात् ।। इति । अत्रातिवालामित्यतिशब्देन द्वादशवर्षात् प्रायो रजःप्रवृत्तिः स्त्रीणां तदा यौवनारम्भः । पौगण्डावस्था वाल्यमेव न खतिबालखम् । तदा पञ्चविंशत्यादिप्राप्तपु योगाद गर्भाधानं न सदोपं, प्रागपि द्वादशवर्षात तु रजःप्रवृत्तिर्यस्यास्तामतिवालां वर्जयेत् । वृद्धा तु पञ्चाशद्वर्षा प्रायेण स्त्रीणां तावद्रजःप्रवृत्तिस्तत्र मध्यवयः पुरुषयोगाद् गर्भाधानं न सदोषम् । पञ्चाशतः परन्तु या सरजस्का सप्तसप्ततिप्रभृतिवर्षेषु सातिवृद्धा । श्रेयसीमजार्थं तां वर्जयेत् । एवं पुरुषस्यापि पोड़शाब्दं यावद वाल्यं यदुक्तं तदतिवाल्याभिप्रायेण, स्त्रिया इव द्वादशवर्षं यावत् पञ्चविंशतिं यावत् तु सव्र्व्वसम्पूर्ण धातुत्वात् शुक्रस्य च सर्व्वगुणोपपन्नत्वात् । स्त्रिया इव षोडशवर्षं यावद् बाल्यातीतत्वं तदा गर्भाधानकरणं न सदोषं प्राक् च पञ्चविंशतेः सदोषं, तस्मादतिबालं श्रेयसीं प्रजां जनयितुं वज्र्जयेत्। एवमतिवृद्धस्यापि सततेरूद्ध सप्तसप्ततिप्रभृतिषु वयःसु जरापकशरीरत्वेनाहाररसस्य प्रीणनखाभावेन क्षीणशुक्रत्वेन श्रेयः प्रजाजननं सदोष, प्राक् सप्त तेरदोषम् । तस्मादतिवृद्धं पुरुषं श्रेयसीं मजां जनयितु वर्जयेदिति भावः । अत उक्ताद्धेतोः सर्व्वदोषवर्जितौ रजोयोनिगर्भाशय-दोप- रजस्वलाकालिकापरिहाय्यै- परिहार दोष न्युब्जादि--दोषात्यशितवादिदोषातिवालत्वादिदोषरहिता स्त्री तथा शुक्रदोषाब्रह्मचय्यंखादिदोषात्यशितत्वादिदोपातिवाल्यादिदोषरहितः पुमान, एतौ द्वौ श्रेयसीं प्रजामुत्पादयितु संसृज्येयातां संसगं कुर्बीयाताम् ॥ ५ ॥
गङ्गाधरः-- ननु केन प्रकारेण संसर्ग कुव्र्वयातामित्यत आह-संजातेत्यादि । मनोज्ञ हितश्चारानं मात्रावदशिला नातिमात्रमशिला चतुर्थ्यादौ रात्रौ शयनं शय्याम् इष्टगन्धं स्वमनोरमगन्धयुक्तं स्वास्तीर्ण स्वाच्छादनं सुखं
For Private and Personal Use Only