________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०६८
चरक संहिता |
[ जातिसूत्रीयं शारीरम्
तत्रात्यशिता चुधिता पिपासिता भीता विमनाः शोकार्त्ता क्रुद्धा चान्यञ्च पुमांसमिच्छन्ती मैथुने चातिकामा वा नारी गर्भ न धत्ते, विगुणां वा प्रजां जनयति । अतिवालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत् । पुरुषऽप्येत एव दोषाः । अतः सर्व्वदोषवर्ज्जितौ स्त्रीपुरुषौ संसृज्येयाताम् ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
I
गङ्गाधरः - अथ न्युब्जत्रादिषु गर्भानाधानप्रकरणादन्यानपि गर्भानाधानहेतुनाह - तत्रेत्यादि । अत्यशिता अतिशयेनाशितं भुक्तं पीतं लीढं खादितं वा यया सा अत्यशिता । क्षुधिता क्षुधा जातास्याः सा. एवं पिपासा जातास्याः सा । विमनाः विगतं चिन्तादिभिर्न स्वच्छन्दं मनो यस्याः सा । इच्छन्तीति रमणार्थमिच्छति रमणकालेऽन्यं पुरुपं या सा । यदि चात्यशिताद्यन्यतमा गर्भ धत्ते, तदा विगुणां वेत्यादि । गर्भ न धत्ते विगुणां वा प्रजां जनयतीति सूत्रद्वयमनुवर्त्ततेऽधिकारत्वात् । तस्मात् अतिबालामित्यादिकां स्त्रियं वर्जयेत् । उक्तं ह्यन्यत्र - वालेति गीयते नारी यावत् षोड़शवत्सरम् । ततः परन्तु तरुणी यावद् द्वात्रिंशतं व्रजेत् ॥ तत ऊर्द्ध भवेत् प्रौढ़ा यावत् पञ्चाशतं व्रजेत् । ततः परं भवेद् वृद्धा सुरतोत्सववज्जिता । बाला तु प्राणदा प्रोक्ता तरुणी प्राणधारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् । निदाघशरदोर्वाला पौध वर्षावन्तयोः । हेमन्ते शिशिरे योग्या वृद्धा वापि न शस्यते ॥ सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् । घृतमुष्णोदकञ्चैव सद्यःप्राणकराणि षट् ॥ पूतिमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥ इति । सुश्रुतेऽप्युक्तम्- (गर्भिणी व्याकरणे) अथास्मै पञ्चविंशतिवर्षा द्वादशवर्षी पत्नी मावहेतु पित्रधम्मार्थकाममजाः प्राप्स्यतीति । ऊनषोड़शवर्षायाम प्राप्तः पञ्चविंशतिम् । यत्राधत्ते पुमान गर्भे कुक्षिस्थः स विपद्यते ॥ जातो वा न चिरञ्जीवेज्जीवेद्वा दुर्बलेन्द्रियः । तस्मादत्यन्तवालायां गर्भाधानं न कारयेत् ॥ अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारेणोपसंसृष्टायां गर्भाधानं न कुर्वीत । पुरुषस्यैवंविधस्य त एव दोषाः सम्भवन्तीति ।।”
चक्रपाणिः - न्युब्जामित्यधोमुखीम् । पर्याप्ते समाप्ते मैथुने; मैथुने चातिकामेति निवृत्तेच्छेSपि पुरुषे मैथुनमिच्छन्ती । अन्येन वा विकारेणेति कुष्ठादिजुगुप्सितेन रोगेण ॥ ४४५ ॥
For Private and Personal Use Only