________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.म अध्यायः शारीरस्थानम् ।
२०६७ न च न्युब्जां पार्श्वगतां वा संसेवेत ; न्युन्जाया वातो बलवान् स योनिं प्रपीड़यति, पार्श्वगताया दक्षिणे पावें श्लेष्मा संव्यतः पिदधाति गर्भाशयम्, वामे पायें पित्तं तदस्याः पीड़ितं विदहति रक्तं शुक्रञ्च, तस्मादुत्ताना सती वीजं गृह्णीयात्। तस्या हि यथास्थानमवतिष्ठन्ते दोषाः। पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत् ॥ ४॥ दीर्घायुश्च भवति । न च प्रवत्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति । यथा नयां प्रतिस्रोतः प्लावि द्रव्यं प्रक्षिप्त प्रतिनिवर्त्तते नोद्धं गच्छति, तदवदेव द्रष्टव्यम् । तस्मानियमवती त्रिरात्रं परिहरेत् । अतः परं मासादुपेयात् । इति । अत्र मासादुद्ध मित्यर्थः । अङ् िमासाद् गमनं पुनर्गर्भद्वारविघटनेन स्थितमपि गर्भ व्यापादयति । केचित् तु अतः परं पञ्चदशदिनात् गर्भलाभविनिश्चय एव लब्धगर्भात् तु नैवेति पठन्ति ॥३॥ ... गङ्गाधरः-ननु सहवासे बहवो बन्धाः कामशास्त्रे दृश्यन्ते, केन बन्धेन संवसेतामित्यत आह-न चेत्यादि। न्युन्जामनुत्तानां पार्श्वगतां दक्षिणेन वामेन वा पाश्चन शयितां वामेन दक्षिणेन वा पाश्र्वेन शयितः सन् न च संसेवेत रमेत। ननु कस्मात न्युजां न सेवेतेत्यत आह-न्युजाया इत्यादि। प्रपीड़यति न च वीजं ग्राहयतीति भावः। ननु पार्श्वगतां कस्मान्नोपसेवेतेत्यत आह -- पाश्र्वेत्यादि। पार्श्वगताया वामपाश्र्वेन शयिताया दक्षिणे पाश्व श्लेष्मा संव्यूतः सन् गर्भाशयं पिदधाति। दक्षिणेन पाश्र्वेन शयिताया वामपाश्र्वे पित्तं तत् संव्यूतं सत् पीड़ितञ्च सत् अस्याः स्त्रिया मैथुनेन गृहीतशुक्रायाः तच्छुकं स्वार्तवरक्तञ्च मिलितमपि विदहति । तस्मादुत्तानेति । ननु कुतो वीजमत्ताना गृह्णातीत्यत आह-तस्या होत्यादि। दोषा वातपित्तकफाः । यथास्थानं स्वस्वस्थानम्। पर्याप्त चैनामिति परिगतमैथुने मैथुनसमाप्तावित्यर्थः। एनां कृतरमणां स्त्रियं मैथुनश्रमोष्मप्रशमार्थ शीतोदकेन मुखनयनादिषु योनिषु च परिषिञ्चेत् ॥४॥ यदुक्तं हारीते चतुर्थीपष्ठ्यष्टमीद्वादशीषु गुणवन्तमायुष्मन्तं पुत्रं जनयति, पञ्चमीनवम्येकादशीषु कन्या गुणवतीः, सप्तम्या दुर्भगाकन्यामिति ॥ २॥३॥
For Private and Personal Use Only