________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
२०६६
चरक-संहिता। (जातिसूत्रीय शारीरम् ततः शुक्लवाससौ च स्रग्विणौ सुमनसावन्योन्यमभिकामो संवसेतामिति ब्रूयात् । स्नानात् प्रभृति युग्मेष्वह सु संवसेतां पुत्रकामा, अयुग्मेषु दुहितकामौ ॥ ३॥ एकद्विवसनाच्छादनव्यवच्छेदः । तथा स्नातं स्रग्विणमलङ्कतं भर्तारं तथा शुद्धस्नाता स्रगविणी भूषालङ्कता कृतमङ्गलाचरणस्वस्तिवाचना प्राक पश्येत् भर्त सदृशपुत्रकामा इत्यर्थः शेषः। उक्तं हि सुश्रुते-ततः शुद्धस्नातां चतुर्थेऽहन्यहतवाससमलङ्क तां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत्। तत् कस्य हेतोः ? पूर्व पश्यतुम्नाता यादृशं नरमङ्गना। तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः। ततो विधानं पुत्रीयमुपाध्यायः समाचरेत् । कर्मान्ते च क्रम हानमारभेत विचक्षणः॥ इति । ततः किं कुर्य्यादित्यत आह-ततः शुक्लवाससौ इत्यादि। सुमनसाविति सुचित्तौ संवसेतो सहवासं कुर्य्यातामित्यर्थः । ननु पुत्रकामयोदु हितकामयोश्च दिवसनियमोऽस्ति न वा सहवासे इत्यत आह --स्नानादित्यादि। स्नानदिनमारभ्य युग्मेष्वहःसु दिनेषु न तु स्नानात् पूर्व, तेन चतुर्थ षष्ठेऽष्टमे दशमे द्वादशे वा दिने पुत्रकामौ संवसेताम् । दुहितकामो वयुग्मेषु, स्नानात् प्रभृति न तु स्नानात् पूर्व, तेन पञ्चमे सप्तमे नवमे एकादशे चाहनि संवसेतामित्यर्थः। मुश्रुतेऽप्युक्तम्- ततोऽपराह्ने पुमान मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्या मासं ब्रह्म चारिणी तैलस्निग्धां तैलमाषोत्तराहारांनारीमुपेयाद्रात्रौ सामादिभिरभिविश्वास्य विकल्प्यैवं चतुर्थी पष्ठयामष्टम्यां दशम्यां द्वादश्याश्च रात्रावुपेयादिति पुत्रकामः। एषत्तरोत्तरं विद्यादायुरारोग्यमेव च। प्रजासौभाग्यमैश्वयं बलश्च दिवसेषु वै ॥ अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्याश्च रात्रौ स्त्रीकामः । त्रयोदशीप्रभृतयो निन्द्या इति। एवं (गर्भावक्रान्तिशारीरे) सुश्रुतेऽप्युक्तम्युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथाऽबला। पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् ॥ अथ तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुसां भवति । यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते, द्वितीयेऽप्येवम् सूतिकागृहे वा। तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति। चतुर्थे तु सम्पूर्णाङ्गो दर्शनात्। ब्रह्मचारिणीति अधःशायिनीति च त्रिरात्रमित्यनेन सम्बध्यते। स्नानात् प्रभृतीति संवसेतामित्यनेन सम्बध्यते, तेन स्नानात् प्रभृति मैथुनं विधीयते, न तु स्नानदिनात् (पूर्व) प्रभृति, पुत्रकामयोयुग्मदिनविधानात्। युग्मदिनन्तु प्रथमदिनात प्रभृत्येव गणनीयम् ।
For Private and Personal Use Only