________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६४
चरक-संहिता। जातिसूत्रीयं शरीरम् पुसौ स्नेहस्वेदाभ्यामुपपाद्य वमनविरेचनाभ्यां संशोध्य क्रमात् प्रकृतिमापादयेत् । संशुद्धी चास्थापनानुवासनाभ्याम् उ.ाचरेत्, उपाचच्च मधुरोषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुष, स्त्रियं पुनस्तैलमाषाभ्याम्। ततः पुष्पात् प्रभृति त्रिरात्रं ब्रह्मचारिणी आसीताधःशायिनी पाणिभ्यामन्नमजजरपात्रे भुञ्जाना न च काञ्चिदेव मृजामापदात ॥२॥
प्रतिज्ञापि बोध्या। अथाप्येतावित्यादि। एतौ स्त्रीपुंसौ निरुक्तरूपौ। क्रमेण वमनविरेचनानन्तरंदोब्बल्ये जाते पेयादिक्रमेण प्रकृतिं जातबलादिकलं प्राग्वदुपपादयेत् । संशुद्धाविति वमनविरेचनाभ्याम् । उपाचरेच्चेति। आस्थापनानुवासनोपचरणानन्तरं पुरुषं मधुरौषधैजीवनीयोषधैर्दशभिः संस्कृताभ्यां साधिताभ्यां घृतक्षीराभ्यां पुरुषमुपाचरेत् । मधुरोषधसंस्कृताभ्यां तैलमाषाभ्यां स्त्रियं उपाचरेत् पानाहारविधिना। तत्र जीवनीयदशककाथकल्काभ्यां स्नेहात् चतुर्गुणपादिकाभ्यां घृतं तैलञ्च साधयेत् । क्षीरन्तु चतुर्गुणजलेन स्वाष्टमांशजीवनीयदशककल्केन वावशेष साधयेत् । माषस्तु यूषम्पादिरूपेण निष्पाद्यः । जीवनीयदशककल्ककर्ष प्रास्थिकजले पूर्चमद्धेशृतं काथं कृला तेन काथेन चतुर्दशगुणेनाष्टादशगुणेन वा पक्वः पादशिष्टो मापो यूषः स्यात्। कल्कसाध्यो षा कार्य इति । ततः पुष्पात् प्रभृतीति । ततो मासं क्रमेणोपचितशुद्धावप्रवर्त्तनमारभ्य त्रिरात्रं नारी अधःशायिनी खदादूगर्द्ध देशे शयनं हिखा भूमिदेशे दर्भसंस्तरे शयाना सती ब्रह्मचारिणी च सती रमणोपरता सती पाणिभ्यां करतलाभ्यामन्नमजर्जरपात्र वा भुञ्जाना च जीणेतमपात्रेतरपात्रेऽन्न हविष्यबिधिना
श्रेयःप्रजारूपप्रयोजननिष्पादकम् । अथापीत्यादौ 'अथ'शब्दोऽधिकारे, 'अपि'शब्दो विशेपार्थः । सेन ध्यापनशुक्रशोणितगर्भाशययोरपि स्त्रीपुसयोः श्रेयःप्रजाजनकगुणाधानार्थं स्नेहादिकर्मकरण. मिति दर्शयति । यद्यपि 'एतो' इतिपदेनैवाधिकृतौ स्त्रीपुसौ लब्धौ, तथापि पुनर्यतः स्त्रीपुसौ स्नेहनादिवक्ष्यमाणकर्मणा योज्यौ इति दर्शयति । क्रमेणेति पेयादिक्रमेण, स च क्रमः वमने पृथकप्रदेशान्तरोतक्रमन्यायेन बोद्धव्यः । पुनः 'संशुद्धौ च' इति वचनात् सम्यकछुद्धयारेवास्थापनानुवासने कर्तव्ये, नासम्यकछुद्धयोरिति दर्शयति । 'मधुरौषध'शब्देन मधुरौषधग्रहणं मधुरस्य विशेषेण शुक्रवृद्धिकरत्वात्। अन्ये तु 'मधुरौषध'शब्देन जीवनीयगणमिच्छन्ति । पुष्पादित्यार्त्तव
For Private and Personal Use Only