SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०६२ Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | मृदो मोहमूलैश्च न दोषैरभिभूयते । निर्दोषो निस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः ॥ १३ ॥ इत्यग्निवेश शरीरसंख्यानाम शारीरम् तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरसंख्यानाम शारीरं नाम सप्तमोऽध्यायः ॥ ७॥ : इच्छाद्वेषभयशोकलोभादिना स भिषक् न युज्यते । तेन च यत् फलति तदाहअमृढ़ इत्यादि । अमूढ़ो भिषङ मोहमूदोषः कामादिहेतुकमवर्त्तनालक्षणः नाभिभूयते । ततश्च यत् फलति तदाह-निर्दोष इत्यादि । निर्दोषः प्रवर्त्तनालक्षणदोषरहितो भिषग निस्पृहश्च भवति । तादृशस्तु चेद्भवति तदा शान्तः स्यात् स प्रवर्त्तनायां यतः प्रशाम्यति । शान्तश्च यदि भवति तदा अपुनर्भवः पुनर्भवरहितो मुक्तो भवतीति चरमं फलति ।। १३ ।। अध्यायं समापयति अग्नीत्यादि । इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरक जल्पकल्पतरी शारीरस्थान जल्पाख्ये चतुर्थस्कन्धे शरीरसंख्याशारीरजल्पाख्या सप्तमी शाखा ।। ७ ।। मोहमूलैरिति मोह कारणकैः । दोषैरिति रागद्वेपैः । निर्दोषत्वेन निस्पृहो भवति । रागद्वेषमूला हीच्छा तदभावान्न भवति । निस्पृहश्च सन् सर्व्वक्रियोपरमात् शान्तो भवति । शान्तश्च सन् प्रशाम्यति संसरणे विश्राम्यति । ततश्च नास्य पुनर्भवो जन्मरूपो भवतीति ॥ १३ ॥ For Private and Personal Use Only इति महामहोपाध्याय चरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शारीरस्थाने शरीरसंख्यानाम शारीरं सप्तमोऽध्यायः ॥ ७ ॥
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy