________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारोरस्थानम् ।
२०६१ अपवर्गः। तत्र प्रधानमशक्तं सर्वसत्तानिवृत्तौ * निवर्त्तते इति ॥ १२॥
तत्र श्लोको। शरीरसंख्यां यो वेद सर्वाक्यवशो भिषक् ।
तदज्ञाननिमित्तेन स मोहेन न युज्यते ॥ अपवर्गो मोक्षः। मृते हि न मनसा न कर्मणा नाकाशादिभिरात्मनो विभागः । ननु यथा आत्माधिष्ठानेन वायुः कर्म च स्वभावश्च परमाणनामात्मादीनां संयोगेनैकीभावेन सङ्गसंख्यातवं सम्पादयति, यथा च विभागेन शरीरदेहिनोमृ तवं सम्पादयति, तथात्मनो मनोबुद्धयादिभिर्विभागं सम्पादयन्नपवर्ग सम्पादयतु इत्यत आह-तत्रेत्यादि। प्रधानं सत्त्वादित्रिगुणवानात्मा तत्रात्ममनोबुद्धग्रादीनां पृथक्त्वे अशक्तं न समर्थं न हि वायुर्वा कर्म वा शुभाशुभं स्वभावो वा सर्वपरमाणूनां पृथकत्वकरणे संभवति, परन्तु सर्वसत्तानिवृत्तौ सव्वे भावानां निवृत्तौ सत्यां निवर्त्तते निःशेषतो निवृत्तिमद् भवतीति ॥ १२ ॥
गङ्गाधरः-अथैतच्छारीरज्ञानफलार्थ श्लोकावाह-शरीरसङ्ख्यामित्यादि । तदज्ञाननिमित्तेन तेषां शरीरावयवानामशानं निमित्तं यस्य तेन मोहेन
पश्यन् तदुपकाराय प्रवर्त्तमानो रागद्वपाभ्यां सक्तो भवति । अपवर्ग इत्यपवर्गहेतुरित्यर्थः । शरीरन्तु पृथगवयवेन भाष्यमाणं न ममतास्पदं भवति, ममताभावाञ्च न तदुपकारकापकारकेषु रागद्वेषी भवतः, तदभावाच्च प्रवृत्त्युपरमे सति धर्माधर्माभावादपवर्गो भवतीत्यर्थः। शरीरसंख्याने यथा मोक्षो भवति, तदाह-तत्रेत्यादि। प्रधानमात्मा। तत्रेति शरीरपृथक्तभावनायाम्। असक्तमिति यथोक्तकमेण रागढ परहितम् । सर्वसन्तानाभिनिवृत्ताविति सर्वत्रोपकारके वापकारके च भावे आस्थानिवृत्ती सत्याम्, निवर्त्तते इति संसारे निवर्तते ॥ ११॥१२॥
चक्रपाणिः-इममेव गद्योक्तमर्थं श्लोके नाह-शरीरेत्यादि। तदज्ञाननिमित्तेनेति शरीरैकरूपतारूपमिथ्याज्ञानजन्येन। मोहेनेति 'अहं स्थिरशरीरी एको ममेदमुपकारकम्' इत्यादिमोहेन ।
* अशक्त सर्वसत्तानिवृत्ती इत्यत्र असक्त सर्वसन्तानाभिनिवृत्तौ इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only