________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६०
चरक-संहिता। शरीरसंख्यानाम शारीरम् शरीरावयवास्तु परमाणभेदेनापरिसंख्यया भवन्ति अतिबहुत्वादतिसौचम्यादीन्द्रियत्वाच। तेषां संयोगविभागे परमा
नां कारणं वायुः कर्म स्वभावश्च। तदेतच्छरीरसंख्यातम् अनेकावयवं दृष्टम्, एकवेन सङ्गसंख्यातं, पृथक्त्वेन
गङ्गाधरः-उपसंहर्तुमाह- शरीरेत्यादि। ननु परमाणुभेदैनापरिसङ्के प्रया भवन्तु शरीरावयवास्तेषां संयोगविभागौ कथं भवत इत्यत आहतेषामित्यादि। तेषां स्थूलाङ्गप्रत्यङ्गघटकानां मातृजादिपरमाणूनां संयोगे विभागे च कारणं वायुः सक्रियखात्। ननु सव्वदा संयोगस्य विभागस्य प्रवृत्त्यापत्तिर्वायुसद्भावादित्यत आह--कर्म स्वभावश्चेति। कर्म शुभाशुभक्रियानिष्पन्नसंस्कारविशेषधर्माधर्मपरिणामः, स्वभावश्च तत्तत्पुरुषशरीरारम्भकतया संयोगे विनाशकतया च विभागे तेषां परमाणूनां स्वभावोऽपि कारणमित्यर्थः। ननु तेषां संयोगे सति किं विभागे वा किं स्यादित्यत आह-तदेतच्छरीरेत्यादि । तत् खगादिकमेतत् अनेकावयवं शरीरसङ्ख्यातं शरीरसंशया ख्यातं दृष्टं भवति। एकत्वेनात्ममनोबुद्धाहंकाराकाशादीनां समुदायानां मिलितत्वेन कीभूतत्वेन सङ्गसंख्यातं सङ्गः संयोगरतेन सङ्गेन संख्यातं व्याख्यातम्। पृथकत्वेन तेषां परमाणूनामात्ममनःप्रभृतीनां विभागेन
चक्रपाणि:-अतिसौम्यादिति अतिसूक्ष्मबुद्धिबोध्यत्वात् । अतीन्द्रियत्वञ्च परमाणूनां स्वभावसिद्धमेवास्मदादीन् प्रति। यत् तु सूक्ष्ममतीन्द्रियं वा, तत् परिसंख्यातु नितरामेव दुष्कर भवतीति युक्तं हेतुत्रयमपरिसंख्याने। अते विषयकलिताः परमाणवः कथं शरीरे संयुज्यन्ते, शरीरविनाशेऽपि वियुज्यन्ते इत्याह- तेषामित्यादि। ननु यदि वायुः कारणं परमाणूनां संयोगविभागे, तत् किमिति करोतीत्याह-कर्म स्वभावश्चेति, न केवलो वायुः, किन्तु कर्मस्वभावपरिगृहीत एव । तेन संयोगे कर्मणा स्वभावेन च वायुः परिगृहीतो भवति, तथा वियोगे परमाणूनां शरीरविनाशं जनयतीत्यर्थः । इदानीं शरीरसंख्यानफलमाह-तदेतदित्यादि। परमार्थतोऽनेकावयवमपि तच्छरीरं संख्याने मोहादेकत्वेन दृष्टं सत् सङ्गहेतुर्भवतीत्यर्थः । एकत्वेन हि शरीरं
For Private and Personal Use Only