________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५६
चरक-संहिता। (शरीरसंख्यानाम शारीरम् सन्धिशते। त्रिंशच्छतसहस्राणि - नव च शतानि षट्पञ्चाशत्सहस्राणि + शिराधमनीनामशः प्रविभज्यमानानां मुखाग्रपरिमाणम्। तावन्ति चैव केशश्मश्रुलोमानीत्येतद् यथावद् यत्संख्यातं
अथ मांससिरास्नायवस्थिजालानि प्रत्येकं चखारि चखारि। तानि मणिबन्धगुलफसंश्रितानि परस्परनिबद्धानि परस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति यर्गवाक्षित मिदं शरीरम् । अथ षट् कूर्चाः। ते हस्तपादग्रीवामेढेषु । हस्तयोद्वौं पादयोहौ ग्रीवामेढयोः एकैकः। एवमेते षट् कूर्चाः। अथ महत्यो मांसरज्जवश्चतस्रः । पृष्ठवंशमुभयतः पेशीनिबन्धनाथ द्वे वाहे आभ्यन्तरे च द्वे। एवं चतस्रः । अथ सप्त सेवन्यः । शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैकास्ताः परिहर्त्तव्याः शस्त्रेण। अथ चतुर्दशास्थ्नां संघाताः, तेषां त्रयो गुलफजानुवसणेषु । एतेनेतरसथिवाहू च व्याख्यातौ। त्रिकशिरसोरेकैकः। एवं चतुर्दशास्थां संघाताः । अथ चतुर्दशैव सीमन्ताः । ते चास्थिसंघातवद्गणनीयाः । यतस्तैर्युक्ता अस्थिसंघाताः। ये युक्ताः सङ्घातास्तु खल्वष्टादशैकेपामिति । अथ परिगणनसामयेऽपि सिराधमनीनां परिसंवार्थमाह-त्रिंशदित्यादि। सिराधमनीनामणुशः प्रविभज्यमानानां समस्तखे त्रिशच्छतसहस्राणीति शिल्लक्षाणि। शतश्च तानि सहस्राणि चेति शतसहस्राणि लक्षमुच्यन्ते । त्रिंशच्च तानि शतसहस्राणि चेति तानि तथा। द्विगुळ शतसहस्रमिति, पात्रादिखान स्त्रीखम्। सिरावधमनीलभेदेन नाभिप्रभवाश्चत्वारिंशत् सिराश्चतुविंशतिर्धमन्यस्तासां प्रधानात् नव शतानि। सप्त सिराशतानि द्वे धमनीशते इति तानि नव शतानि। षट्पञ्चाशत्सहस्राणि प्रतानतो भूखा पुनः प्रतानत. स्त्रिंशल्लक्षाणि भवन्त्यणुशो विभज्यमानानि। तेषां यावन्ति मुखाग्रपरिमाणानि तावदेव केशश्मश्रुरोमकूपपरिमाणम्। तावन्ति चैव मिलिखा केशश्मश्रुलोमानि न खधिकानीति। द्वासप्ततिः कोटयो लोमानीत्युक्तमानिनापि।
अणुशः प्रविभज्यमानानामिति अणुभावानां भेदेन भिद्यमानानाम् । मुखाम्रपरिमाणमिति मुखरूपस्य परिमाणम् । अत्र यान्येव सप्त शिराशतानि धमनीशतद्वयञ्चोक्तामि, तान्येव सूक्ष्मप्रतालाश्च भेदगणनया एकोनविंशत् सहस्राणि नव शतानि षट्पञ्चाशत्कानि, स्थूलगणनत्वे पूर्वशिरासंख्या धमन्यन्तर्भवतीति न विरोधः। तावन्ति चैव केशश्मश्रुलोमानीति एकोनत्रिंशत् सहस्राणि नव शतानि षट्पञ्चाशत्कानि केशश्मश्रुलोम्नां भवन्तीत्यर्थः। एतच्च * एकोनत्रिंशतसहस्राणीति पाठान्तरम् । + षटपञ्चाशत्कानीति वा पाठः ।
For Private and Personal Use Only