________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ] शारीरस्थानम् ।
२०५५ उपघात विजानीयान्मम॑णां तुल्यलक्षणम् ॥ मर्माभिघातश्च न कश्चिदस्ति योऽल्पात्ययो वापि निरत्ययो वा। प्रायेण मर्मस्वभिताड़ितास्तु वैकल्यमृच्छन्त्यथ वा नियन्ते। माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् । प्रायेण ते कृच्छतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ॥ इति।।
द्वे सन्धिशते इति। सन्धीनां द्वेशते इत्यस्थिसन्ध्यभिप्रायेण, स्नायुसन्धीनाम् असङ्ख प्रयवात्। तद् यथा सुश्रुते। सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च । शाखासु हन्योः कट्याश्च चेष्टावन्तस्तु सन्धयः। शेषास्तु सन्धयः सर्वे विश या हि स्थिरा बुधैः ॥ सङ्ख्यातस्तु दशोत्तरे द्वे शते। तेषां शाखास्वष्टषष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूद्ध त्राशीतिः। एवं दशोत्तरे द्वे शते। तत्रैकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः, द्वावङ्गष्ठे ते चतुर्दश। जानुगुलफवाहणेष्वेकैक। एवं सप्तदशैकस्मिन् सक्थिन भवन्ति। एतेनेतरसक्थिबाहू च व्याख्यातौ । त्रयः कटीकपालेषु । चतुर्विंशतिः पृष्ठवंशे । तावन्त एव पाश्वयोः। उरस्यष्टौ । तावन्त एव ग्रीवायाम्। त्रयः कण्ठे । नाड़ीषु हृदयलोमनिबद्धास्वष्टादश । दन्तपरिमाणा दन्तमलेष। एकः काकलके नासायाश्च । द्वो वम मण्डलजो नेत्राश्रयो । गण्डकर्णशङ्खध्वेकैकः । द्वौ हनुसन्धी। द्वावपरिष्टाद् भ्र वोः शङ्खयोश्च । पश्च शिरःकपालेषु। एको मूद्धि। त एते सन्धयोऽष्टविधाः। कोरोदूखलसामुद्ग-प्रतर-तुन्नसेवनी-वायसतुण्ड-मण्डल-शङ्खावर्ताः। तेषामलिमणिबन्ध. गुलफजानुकूपरेष कोराः सन्धयः। कक्षवङ्क्षणदशनेषदुखलाः। अंसपीठगुदभगनितम्बेष सामुद्गाः। ग्रीवापृष्ठवंशयोः प्रतराः । शिरःकटीकपालेषु तुन्नसेवनी। हन्वोरुभयतस्तु वायसतुण्डाः। कण्ठहृदयनेत्रलोमनाड़ीषु मण्डलाः। श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः। अस्थ्नान्तु सन्धयो होते केवलाः परिकीर्तिताः। पेशीस्नायुसिराणान्तु सन्धिसङ्ख्या न विद्यते ॥ इति । इति शंषाणां सन्धीनां प्रतिसन्धान तत्रान्तरतः कार्यम् ।
अथ प्रत्यङ्गेष यद्यपि कण्डरादीनि नोक्तानि, तथापि उपलक्षणतः सुश्रतादितश्च कतिचन प्रत्यङ्गान्यधिकानि कण्डरादीनि व्याख्यास्यन्ते। तद् यथा-पोडश कण्डराः। तासां चतस्रः पादयोस्तावत्य एव हस्तग्रीवापृष्ठेषु । एवं षोड़श कण्डराः। तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहा इति। नखास्वस्मिंस्तन्त्रे प्रागस्थिषु गणिताः। ग्रीवाहृदयनिबन्धिनीनाम् अधोभागगतानां मेढ़ प्ररोहः। श्रोणीपृष्ठनिबन्धिनीनामधोभागगतानां विम्बः। मूद्धौरुवक्षोऽक्षपिण्डादीनाञ्चेति ।
For Private and Personal Use Only