________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५४
चरक-संहिता। शरीरसंख्यानाम शारीरम् जीवति, पाकात् पतितशल्यो वा, नोद्धृतशल्यः। भ्र वोर्मध्ये स्थपनी नाम ; तत्रोत्क्षेपवत् । पश्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम ; तत्रोन्मादमयचित्तनाशैर्मरणम् । घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि, तानि चखारि मर्माणि ; तत्रापि सद्योमरणम् । मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातो रोमावतोऽधिपतिनाम; तत्रापि सद्योमरणम् । एवमेतानि सप्तत्रिंशत् ऊद्ध जत्रगतानि मर्माणि व्याख्यातानि।
भवन्ति चात्र । ऊर्व्यः सिरांसि विटपे च सकक्षपार्वे एकैकमङ्गलमिताः स्तनपूर्वमूलम्। विद्धाङ्गुलिद्वयमितं मणिबन्धगुलर्फ त्रीण्येव जानु सपरं सह कूपराभ्याम् । हृदस्तिकूच्चेंगुदनाभि वदन्ति मूद्धि चखारि पञ्च च गले दश यानि च द्वे। तानि स्वपाणितलकुश्चितसम्मितानि शेषाण्यवेहि परिविस्तरतोऽङ्गलार्द्धम्। एतत् प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहत्य मर्म। पार्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् । 'छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसगल्पमतो निरेति। प्राप्यामितव्यसनमुग्रमतो मनुष्याः संछिन्नशाखतरुवनिधनं न यान्ति। क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति । एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः। तस्मात् तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुलफदेश। मर्माणि शल्यविषयार्द्धमुदाहरन्ति यस्माच मम्मसु हता न भवन्ति सद्यः। जीवन्ति तत्र यदि वैद्यगुणेन केचित् ते प्राप्नुवन्ति विकलखमसंशयं हि। संभिन्नजरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः। छिन्नैश्च सथिभुजपाद करैरशेषैर्येषां न मर्मपतिता विविधाः प्रहाराः॥ सोममारुततेजांसि रजःसत्त्वतमांसि च। मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते। मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः। इन्द्रियार्थेष्वसंवित्तिमनोबुद्धि विपर्ययः। रुजश्च विविधास्तीत्रा भवन्त्याशुहरे हते। हते कालान्तरघ्ने तु ध्वो धातुक्षयो नृणाम्। ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति। हते वैकल्यजनने केवलं वैद्यनैपुणात् । शरीरं क्रियया युक्तं विकलखमवाप्नुयात् ॥ विशल्यघ्नेषु विज्ञ यं पूव्वोक्तं यच्च कारणम् । रुजाकराणि मर्माणि क्षतानि विविधा रुजः। कुन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि। छेदभेदाभिघातभ्यो दहनाद दारणादपि।
For Private and Personal Use Only