________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०५३ न जीवति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति। स तु यत्नेनोपक्रान्तो रोहति । पक्कामाशययोर्मध्ये सिरामभवा नाभिर्नाम ; तत्रापि सद्य एव मरणम् । स्तनयोः मध्यमधिष्ठाय उरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम ; तत्र सय एव मरणम् । स्तनयोरधस्तात् द्वाङ्गुलमुभयतः स्तनमूले नाम मर्मणी ; तत्र कफपूर्णकोष्ठतया कासवासाभ्यां म्रियते । स्तनचूचु कयोरूद्धं, बहुलमुभयतः स्तनरोहितौ नाम ; तत्र लोहितपूर्णकोष्ठतया कासवासाभ्याश्च म्रियते। अंसकूटयो. रधस्तात् पाश्वोपरिभागयोस्वपलापौ नाम ; तत्र रक्तेन पूयभावं गतेन मरणम् । उभयत्र उरसो नाड्यौ वातवहे अपस्तम्भौ नाम ; तत्र वातपूर्णकोष्ठतया कासश्वासाभ्याञ्च मरणम् । एवमेतान्युदरोरसोर्टादश मर्माणि व्याख्यातानि।
अत ऊद्ध पृष्ठमाण्यनुव्याख्यास्यामः। तत्र पृष्ठवंशमुभयतः प्रतिश्रोणीकाण्डमस्थिनी कटोकतरुणे नाम मम्मणी ; तत्र शोणितक्षयात् पाण्डुर्विवो हीनरूपश्च म्रियते। पार्वजघनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मम्मेणी; तत्र स्पर्शाशनमधःकाये चेष्टोपघातश्च। श्रोणीकाण्डयोरुपया॑शयाच्छादनौ पार्थान्तरपतिबद्धौ नितम्बो नाम; तत्राधःकायशोषो दोब्बल्याच मरणम् । अधःपार्वान्तरप्रतिबद्धौ जघनपाश्वमध्ययोस्तिर्यगृद्ध ञ्च जघनात् पाश्वसन्धी नाम ; तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूलादुभयतः पृष्ठवंशस्य वृहतौ नाम ; तत्र शोणितातिप्रवृत्ति निमित्तैरुपद्रवैम्रियते। पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बन्धे असफलके नाम ; तत्र बाह्वोः स्वापः शोषो वा। बाहुमूद्धग्रीवामध्येऽसपीठ. स्कन्धनिबन्धनावंसौ नाम ; तत्र स्तब्धवाहुता। एवमेतानि चतुर्दश पृष्ठमाणि व्याख्यातानि। - अत ऊद्ध जत्रुगतानि व्याख्यास्यामः । तत्र कण्ठनाडीम् उभयतश्चतस्रो धमन्यः, द्वे नीले द्वे च मन्ये व्यत्यासेन ; तत्र मूकता स्वरवैकृतमरसग्राहिता च। ग्रीवायामुभयतश्चतस्रः सिरामातृकाः; तत्र सद्योमरणम् । शिरोग्रीवयोः सन्धाने कृकाटिके नाम ; तत्र चलमूर्द्धता। कर्णपृष्ठतोऽध - संश्रिते विधरे नाम ; तत्र बाधिर्यम् । घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्ध अभ्यन्तरतः फणे नाम ; तत्र गन्धाज्ञानम्। भ्रू पुच्छान्तयोरधोऽक्ष्णोर्वाह्यतोऽपाको नाम ; तत्रान्ध्यं दृष्टुअपघातो वा। भ्र वोरुपरिनिम्नयोरावत्तौ नाम ; तत्रान्ध्यं दृष्ट्यपघातश्च। भ्र वोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शक्को नाम ; तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम ; तत्र सशल्यो
For Private and Personal Use Only