________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५२
चरक-संहिता। शरीरसंख्यानाम शारीर सिराः शरीरे प्रायेण ता मर्मसु सनिविष्टाः । स्नायवस्थिमांसानि तथैव सन्धान सन्तप्र्य देहं प्रतिपालयन्ति । ततः क्षते मम्मणि ताः प्रद्धः समन्ततो वायुरभिस्तृणोति। विवद्धमानस्तु स मातरिश्वा रुजः सुतीवाः प्रतनोति काये। रुजाभिभूतस्तु पुनः शरीरं प्रलीयते नश्यति चास्य संशा। अतो हि शल्यं विनिहत्तु मिच्छन् मर्माणि यत्नेन परीक्ष्य कत्। एतेन शेषं व्याख्यातम् । . तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति। कालान्तरमाणहरमन्ते विद्धं वैकल्यमापादयति। विशल्यप्राणहरमन्ते विद्धं कालान्तरेण क्लेशयति रुजाश्च करोति। रुजाकरमतीववेदनं भवति। तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति। कालान्तरमाणहराणि पक्षान्मासाद वा। तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति। विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति । ___ अत ऊर्द्ध प्रत्येकशो मर्मस्थानान्यनुव्याख्यास्यामः। तत्र पादाङ्गुष्ठाङ्गुल्योमध्ये क्षिप्रं नाम मम्मे ; तत्र विद्धस्याक्षेपेकेण मरणम् । मध्यमाङ्गुलीमनुपूव्वण मध्ये पादतलस्य तलहृदयं नाम ; तत्रापि रुजाभिर्भरणम् । क्षिप्रस्योपरिष्टादुभयतः कूचो नाम ; तत्र पादस्य भ्रमणवेपने भवतः । गुल्फसन्धेरध उभयतः कूर्चशिरो नाम ; तत्र रुजाशोफो। पादजङ्घयोः सन्धाने गुलफो नाम ; तत्र रुजास्तब्धपादता खञ्जता वा। पाणिं प्रति जङ्घामध्ये इन्द्रवस्तिर्नाम ; तत्र शोणितक्षये मरणम्। जङ्घोवाः सन्धाने जानु नाम ; तत्र खञ्जता। जानुन ऊर्द्धमुभयतस्वाङ्गलमाणिर्नाम ; तत्र शोफाभिद्धिः स्तब्धसक्थिता च। ऊरुमध्ये उवर्ती नाम ; तत्र शोणितक्षयात् सक्थिशोषः । ऊर्ध्या ऊर्द्ध मधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षं नाम ; तत्र लोहितक्षयेण पक्षाघातः। वङ्क्षणवृषणयोरन्तरे विटपं नाम ; तत्र पाण्डामल्पशुक्रता वा भवति। एवमेतान्येकादश सक्थिमाणि व्याख्यातानि। एतेनेतरसक्थिवाहू च व्याख्यातौ। विशेषतस्तु यानि सनि गुल्फजानुविटपानि, तानि बाहौ मणिबन्धकूपरकक्षधराणि। यथा वणवृषणयोरन्तरे विटपं एवं वक्षःकक्षयोर्मध्ये कक्षधरम् ; तस्मिन् विद्धे त एवोपद्रवाः । विशेषतस्तु मणिबन्धे कुण्ठता कूर्पराख्य कुणिः कक्षधरे पक्षाघातः। एवमेतच्चतुश्चखारिंशच्छाखासु मर्माणि व्याख्यातानि।
अत ऊद्ध मुदरोरसोर्मम्मस्थानान्यनुव्याख्यास्यामः। तत्र वातवचौनिरसनं स्थूलात्रप्रतिबद्धं गुदं नाम ; तत्र सद्योमरणम् । अल्पमांसशोणितोऽभ्यन्तरतः कव्यां मूत्राशयो वस्तिर्नाम ; तत्रापि सद्योमरणमश्मरीत्रणाहते। तत्राप्युभयतो भिन्ने
For Private and Personal Use Only