________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्म अध्यायः ] शारीरस्थानम् ।
२०५१ नीलधमनी-मातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भ-हृदयनाभिपावसन्धिवृहतीलोहिताक्षोळ्यः सिरामाणि। आणिविटपकक्षधरकूच्चेकूर्चशिरोवस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमाणि। कटीकतरुणनितम्बांसफलकशङ्खास्त्रस्थिमर्माणि । जानुकूपरसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावत्तेकुकाटिकाश्चेति सन्धिमाणि। तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति। तद् यथा-सद्यःप्राणहराणि। कालान्तरमाणहराणि । विशल्यनानि। वैकल्यकराणि। रुजाकराणीति। तत्र सद्यःप्राणहराण्येकोनविंशतिः। कालान्तरमाणहराणि त्रयस्त्रिंशत्। त्रीणि विशल्यनानि । चतुश्चत्वारिंशद वैकल्यकराणि, अष्टौ रुजाकराणीति । भवन्ति चात्र । शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरोगुदम् । हृदयं वस्तिनाभी च घ्नन्ति सद्योहतानि तु। वक्षोमर्माणि सीमन्ततलक्षिपेन्द्रवस्तयः। कटीकतरुणे सन्धी पार्श्वजी वृहती च या। नितम्बाविति चैतानि कालान्तरहराणि तु। उत्क्षेपौ स्थपनी चैव विशल्यनानि निदिशेत् । लोहिताक्षाणि जानूर्वी-कूर्चा विटपकूपराः। कुकुन्दरे कक्षधरे विधुरे सहकाटिके। अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा। वैकल्यकरणान्याहुरावत्तौ द्वौ तथैव च। गुल्फो द्वौ मणिबन्धौ छौ द्वे द्वे कूच्चशिरांसि च। रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् । क्षिप्राणि विद्धमात्राणि नन्ति कालान्तरेण च । ___ मर्माणि नाम मांससिरास्नाय्यस्थिसन्धिसन्निपातास्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति, तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते। तत्र सद्यःप्राणहराण्यान यान्यग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति । कालान्तरमाणहराणि सौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्यन्नानि वायव्यानि, शल्यमुखनिरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति उद्धतमात्रे तु शल्ये मम्मेस्थानाश्रितो वायुनिष्क्रामति; तस्मात् सशल्यो जीवति उद्धतशल्यो म्रियते। वैकल्यकराणि सौम्यानि, सोमो हि स्थिरखाच्छैत्याच्च पाणावलम्बनं करोति। रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेषतश्च तौरुजाकरौ। पाश्चभौतिकीच रुजामाहुरेके।
केचिदाहुमांसादीनां पश्चानामपि समस्तानां विद्धानाञ्च समवायात् सद्यःप्राणहराणि। एकहीनानामल्पानां वा कालान्तरमाणहराणि । द्विहीनानां विशल्यप्राणहराणि । त्रिहीनानां वैकल्यकराणि। एकस्मिन्नेव रुजाकराणीति। यतश्चैवमतोऽस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति। चतुविधा यास्तु
For Private and Personal Use Only