________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kallass
Acharya Shri Kailassagarsuri Gyanmandir
२०४४
चरक-संहिता। शरीरसंख्यानाम शारीरम् एतावदृश्यं शक्यमपि निर्देष्टुम्, अनिद्देश्यमतः परं तवर्यमेव। तद् यथा-नव स्नायुशतानि सप्त सिराशतानि
गङ्गाधरः-एतावदिति खगादिकं यावदुक्तं तावद् दृश्यं निर्देष्टुं शक्यमतः परं प्रत्यङ्गं तय॑महनीयमिति। तद् विवृणोति-तद् यथेत्यादि । नव स्नायुशतानि। स्नायूनां नव शतानि। तदुक्तं सुश्रुतेऽपि-खपर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः। शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् । तस्मानिःसंशयं ज्ञानं हा शल्यस्य वाञ्छता । शोधयिखामृतं सम्यग द्रष्टव्योऽङ्गविनिश्चयः । प्रत्यक्षतो हि यद् दृष्टं शास्त्रदृष्टश्च यद्भवेत् । समासतस्तदुभयं भूयोशानविवर्द्धनम् ॥ तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीड़ितम् अवर्षशतिकं निःसृष्टात्रपुरीषं पुरुषमवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्वजकुशशणादीनामन्यतमेन वेष्टिताङ्गमप्रकाशे देशे कोथयेत्। सम्यकप्रकुथितञ्च उद्धृत्य ततो देहं सप्तरात्रादुशीरवालवेणुवल्वजकुचीनामन्यतमेन शनैःशनैः अवघर्षयंस्वगादीन् सर्वानेव वाह्याभ्यन्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेत् चक्षुषा। श्लोको चात्र भवतः। न शक्यश्चक्षुषा द्रष्ट देहे मूक्ष्मतमो विभुः । दृश्यते शानचक्षुर्भिस्तपश्चक्षुभिरेव च। शरीरे चैव शास्त्रे च दृष्टार्थः स्याद विशारदः । दृष्टश्रुताभ्यां सन्देहमवापोह्याचरेत् क्रियाः ॥ इति । तत्र । नव स्नायु. शतानि तासां शाखासु षट्शतानि । द्वे शते त्रिंशच कोष्ठे । ग्रीवां प्रत्यूद्ध सप्ततिः इति। तत्रैककस्यान्तु पादाङ्गल्यां षट निचितास्तास्त्रिंशत तावत्य एव तलकच्चेगुलफेषु। तावत्य एव जवायाम् । दश जानुनि। चखारिंशदूर। दश वङ्क्षणे। शतमध्यमेवमेकस्मिन् सक्थिन भवन्ति । एतेनतरसथिबाह च व्याख्यातो। एवं शाखासु षट् शतानि भवन्ति । षष्टिः कव्यामशीतिः पृष्ठे पार्श्वयोः षष्टिरुरसि त्रिंशत् । एवं कोष्ठे द्वे शते त्रिंशच भवन्ति। षट्त्रिंशद ग्रीवायां मूद्धि चतुस्त्रिंशत् । एवं ग्रीवां प्रत्यूद्ध सप्ततिः। एवं नव स्नायुशतानि व्याख्यातानि। भवन्ति चात्र । स्नायूश्चतुविधा विद्यात् तास्तु सर्वा निबोध मे। प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा। प्रतानवत्यः शाखासु चाध इति । एतावत् त्वगादि दृश्यं प्रायः प्रत्यक्षविषय इत्यर्थः । अतः परं तळमेवेति अतस्त्वगादेः परं यत् स्नाय्वादि, तत् प्रायस्तयमेव, अनुमानगम्यमेवेत्यर्थः। यद्यपि स्नायवाद्यपि प्रत्यक्ष भवति, तथापीह वक्ष्यमाणसंस्थायुक्तं सर्वं स्नाय्वादि न प्रत्यक्षेण सुकरग्रहणमिति तय॑म्' इत्युक्तम्। स्नायवादिभेदानेवाह-नव स्नायुशतानीत्यादि।
For Private and Personal Use Only