________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४२
चरक-संहिता। शरीरसंख्यानाम शारीरम् षट्पञ्चाशत् प्रत्यङ्गानि षट्स्वङ्गेषूपनिबद्धानि, यान्यपरिसंख्यातानि पूर्वमङ्गेषु परिसंख्यायमानेषु, तान्यन्यैः पर्यायैरिह प्रकाश्य व्याख्यातानि भवन्ति। तद् यथा-वे जवापिण्डिके वे ऊरुपिण्डिके द्वौ स्फिचौ द्वौ वृषणावेकं शेफो द्वे उखे द्वौ वक्षणौ द्वौ कुकुन्दरौ एकंवस्तिशीर्षमेकमुदरं द्वौ स्तनो द्वौ भुजौ छ द्व बाहुपिण्डिके चिवकमेकं द्वावोष्ठौ द्वे मृकण्यो द्वौ दन्तवेष्टकावेक तालु एका गलशुण्डिका द्वे उपजिहिके एका गोजिह्निका द्वौ गण्डौ द्वे कर्णशष्कुलिके द्वौ कर्णपुत्रको द्वे अक्षिकूटे चत्वार्याक्षिवानि व अक्षिकनीनिके द्वे भ्र वावेकोऽवटुः चत्वारि
गङ्गाधरः-कोष्ठाङ्गान्युक्त्वा प्रत्यङ्गान्याह-पट्पञ्चाशत् प्रत्यङ्गानीत्यादि । नन्वेतानि किं पड़ङ्गाधिकान्युतावान्तराणीत्यत आह-पवित्यादि। पूर्व येषु परिसंख्यायमानेष्वङ्गेषु यान्यपरिसङ्ख्यातानि तानि पड़ङ्गेषु पाणिपादशिरोऽन्तराधिषु पटमुपनिबद्धानि । तान्यन्यैः पायैरिह पुनः प्रकाश्यानि भवन्ति । तद यथेत्यादि-तत्रैते जङ्घादिके द्वे द्वे । जङ्घ द्वे द्वे चोरुपिण्डिके। द्वौ स्फिचौ। द्वौ दृषणौ । द्वे उखे। द्वौ वङ्क्षणे । द्वौ कुकुन्दरौ। द्वौ स्तनौ। द्वौ भुजौ। वे बाहुपिण्डिके । द्वाबोष्ठौ। द्व मुक्कण्यो । द्वौ दन्तवेष्टको । व उपजिहिके। द्वौ गण्डौ। द्वे कर्णशष्कुलिके । द्वौ कर्णपुत्रको । द्वे लक्षिकूटे। द्वे अक्षिकनीनिके। द्वे भ्र वौ
चक्रपाणिः-पटपञ्चाशत् प्रत्यङ्गानीति, तद् यथा-डे जवापिण्डिके इत्यादिग्रन्थवक्ष्यमाणानि । यानीत्यादि-यानि यानि वक्ष्यमाणानि षट्पञ्चाशत् प्रत्यङ्गानि पूर्वमङ्गेपु हस्तादिषु षट्सु परिसंख्यायमानेषु अपरिसंख्यातानि, तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्तीति योजना। पर्यायाश्च 'जङ्घा. पिण्डिकादयः' शब्दा एव, एतेन हस्तादिषडङ्गकथनेनैव तदाश्रिता अपि जवापिण्डिकादय उक्ता एव । सम्प्रति तु अवयवविशेषव्यवहारार्थं जवापिण्डिकादयः पृथगुक्ता इति वाक्यार्थः। पूर्वमङ्गेष्वितिस्थाने पूर्वमन्येष्विति पाठः, तथापि 'अन्य'शब्देन हस्तादीनि षडङ्गानि ग्राह्याणि । उखे इति कक्षस्य पाश्र्वयोनिम्नभागौ। कुकुन्दरौ स्फिचोरुपरि उन्नती भागौ। वस्तिशीर्ष नाभेरधः । श्लेप्मभुवौ कण्ठपायोर्व्यवस्थितौ कटिनी भागौ। सक्कयौ वदनान्ते । द्व उपजिबिके इति जिह्वाया अधोगता जिह्वा, तथा उपरिगता ग्राह्या। एका गोजिबिकेति गौर्वाक, तस्याः कारणभूता जिह्वा । तेन वचनकारणभूता प्रधानभूता जिद्वैव गृह्यते। कर्णशष्कुलिके कर्णगतावतंकी, कर्णपुत्रको तु द्वौ कर्णावेव। अक्षिकूटके
* द्वौ भुजौ इत्यत्र द्वौ श्लेष्मभुवौ इति चक्रः ।
For Private and Personal Use Only