________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः] शारीरस्थानम्।
२०४१ मांसमिति। तेषु षट् पूर्वाणि मर्मसंख्यातानि। पञ्चदश कोष्ठाङ्गानि, तद् यथा-नाभिश्च हृदयश्च क्लोम च यकृच्च प्लीहा च वुको च वस्तिश्च पुरीषाधारश्चामाशयश्च पक्वाशयश्चोत्तरगुदश्चाधरगुदश्च क्षुद्रान्तञ्च स्थूलान्तञ्च वपावहनञ्चति ॥ ७॥ गुदवस्तय इति षट् मर्म सङ्ख्यातानि। पञ्चदश कोष्ठाङ्गानीति। सप्त आशया. ङ्गानि । सुश्रते तु-आशयाः सप्त ते तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पकाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टमः इति। अत्राङ्गानि विवृणोति। तद यथा-नाभिश्चेत्यादि। सुश्रुतेनोक्तम्-तस्यान्तरेण नाभिस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् । तद् आधमति वातेन देहस्तेनास्य वर्द्धते ॥ इति। क्लोमशब्देनात्र पुप्फुस उण्डुकश्चेति द्वयम्। सुश्रुतेनोक्तम्शोणितफेनप्रभवः फुफ्फुसः शोणितकिट्टप्रभव उण्डुकः इत्युण्डुकः क्लोम। यकृत प्लीहा च रक्ताशयः। सुश्रुतेनोक्तम्-गर्भस्य यकृत्प्लीहानौ शोणितजाविति । वुको वुक्कट्ठयम्, वक्षोऽधस्तात् । सुश्रुतेऽप्युक्तम्-रक्तमेदःप्रसादाद बुक्को भवत इति। वस्तिरेका मूत्राशयः। पुरीषाधारश्चेति यत्र पुरीषमादधाति । आमाशयश्चेति नाभिस्तनान्तरदेशो यत्र भुक्तमात्रमपक्वं तिष्ठति। पकाशयश्चेति नाभेरधस्तादेशो यत्र पक भुक्तस्य किटं तिष्ठति। उत्तरगुदञ्चेति तत् पक्वं पुरीषं यद्वहति। अधरगुदञ्चेति अद्धपश्चाङ्गुलिमानं त्रिबलिरूपं गुदं तस्याधोभागः पुरीषं यद्विसृजति। अन्त्रं यदुदरमध्यस्थं, या लोके नाड़ीत्युच्यते, न तु सा नाड़ी, शास्त्रे हि तदन्त्रमित्युच्यते। तच द्विविधं क्षुद्रान्त्रञ्च स्थूलान्त्रश्च। सुश्रुते तु गर्भस्येत्यधिकृत्य । असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः । तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति । ततोऽस्यान्त्राणि जायन्ते गुदं वस्तिश्च देहिनः ॥ इति। तथा सा त्रिव्यामान्यन्त्राणि पुंसां स्त्रीणामर्द्ध व्यामहीनानीति। व्यामोऽत्र सबक्षःप्रसारितबाहुव्यम् । वपावहनञ्चेति । हृन्मेदस्तु वपा वसेति तद्वहनं मेदःस्थानम् । इति पञ्चदश कोष्ठाङ्गानीति ॥७॥ तेन नाभिमांसयोरपि प्राणायतनत्वं तथा शङ्खयोश्च, पाठद्वयदर्शनाद बोद्धव्यम् । यदुक्तम् दशप्राणायतनीये-“दशवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः। शङ्खो मर्मत्रयं कच्छो रक्तं शुक्रौजसी गुदम् ॥” इति । क्लोम पिपासास्थानम् । वस्तिः मूत्रस्थानम् । उत्तरगुदम्-यत्र पुरीषमवतिष्ठते। येन तु पुरीषं निष्क्रामति तदधरगुदस्थानम् 'तैलवर्त्तिका' इति ख्यातम् ॥ ७ ॥
२५६
For Private and Personal Use Only