________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४०
चरक-संहिता। शरीरसंख्यानाम शारीरंम् पच्चेन्द्रियाधिष्ठानानि, तद् यथा-त्वग जिह्वा नासि. काक्षिणी कौँ च। पञ्च बुद्धीन्द्रियाणि, तद् यथा-स्पर्शनं रसनं घ्राणं दर्शनं श्रोत्रमिति । पञ्च कम्मेन्द्रियाणि, तद् यथाहस्तौ पादौ पायुरुपस्थो जिह्वा चेति ॥ ६ ॥
हृदयं चेतनाधिष्ठानमेकम् । दश प्राणायतनानि। तद् यथा---मूर्दा कण्ठो हृदयं नाभिमुदं वस्तिरोजः शुक्र शोणितं इतरसक्थिवाहू च व्याख्यातो! तान्यष्टोत्तरशतमस्थ्नाम् । श्रोण्यां पञ्च । तेपा द्वे नितम्वे । गुदभगत्रिकसंश्रितमेकैकम् । पार्चे पट्त्रिंशत् एवमेकस्मिन्, द्वितीयेऽपवम् । पृष्ठे त्रिंशत् । द्वे अक्षसंज्ञ। सप्तदशोरसि। ग्रीवायामेकादश । कण्ठनाड्यां चखारि। द्वे हन्वोदन्ता द्वात्रिंशत् । नासायां त्रीणि। द्व तालुनि । गण्डकर्णशङ्खध्वेकैकं तानि षट् । षट् शिरसि। तानि षट् पष्टिरिति त्रीणि शतान्यस्थ्नां पूयन्ते। इत्यस्थिसंग्रहो व्याख्यातो भवति ॥५॥
गङ्गाधरः-अथ पञ्चेन्द्रियाधिष्ठानानीति। तद् यथा-खजिह्वत्यादि। खचामुत्पत्तिरुक्ता। जिह्वायास्तूत्पत्तिः सुश्रुतेनोक्ता-उदरे पच्यमानानामाध्मानाद रुक्मसारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ॥ पञ्च बुद्धीन्द्रियाणीत्यादि स्पष्टम्। पञ्च कर्मेन्द्रियाणीति । जिह्वा चेति वागिन्द्रियं न तु रसनेन्द्रियम्। द्वयोरधिष्ठानं हि जिह्वा ॥६॥ ___ गङ्गाधरः-हृदयमिति सुश्रुतेऽप्युक्तम्। शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः। तस्याधो वामतः प्लीहा फुपफसश्च, दक्षिणतो यकृत् लोम च। तद्धदयं विशेषेण चेतनास्थानमतस्तस्मिन् तमसारते सबै प्राणिनः स्वपन्ति । भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद् विकशति स्वपतश्च निमीलतीति । विस्तरस्तु अर्थदशमहामूलीयेऽस्योक्तः। दश प्राणायतनानीति च विस्तरेण दशप्राणायतनिकेऽध्याये व्याख्यातम् । तेषु दशसु मध्ये पूर्वाणि मूर्द्धकण्ठहृदयनाभिस्थालकार्बुदानि तु पशुकाभूलान्यर्बुदाकाराण्यस्थीनि। नासिकागण्डकूटललाटानामेकमूलत्वाटेकमेवास्थि गणनीयम्। ये तु पृथगङ्गानि पठन्ति, तेषां नासागण्डकूटललाटानां त्रयाणां श्रीन्येवास्थीनि, एकत्वेन तु संख्यापूरणम्। अक्षिणी कौ च पृथक्त ऽपि एकैकेन्द्रियाधिष्ठानत्वेन एकत्वेन ग्राहेय। एवं हस्तौ पादौ च एकतया ग्राह्यौ ॥ ५॥६॥
चक्रपाणिः-इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शङ्खौ परित्यज्य नाभिं मांसञ्च गृहीतम् ।
For Private and Personal Use Only