________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम् । २०३६ च पार्श्वकानि। तावन्ति चैषां स्थालिकान्यवदाकाराणि तानि द्विसप्ततिः। द्वौ शङ्कको चत्वारि शिरःकपालानि। वक्षसि सप्तदशेति त्रीणि षष्टाधिकानि शतान्यस्थ्नामिति ॥५॥ स्थीनि पार्श्वकानि तान्येकै कस्मिन् पाश्च द्वादश द्वादशेति चतुर्विंशतिः । तावन्ति चैषां स्थालिकानि पृष्ठे खर्बुदाकाराणि द्वादश द्वादशेति चतुर्विशतिस्तानि मिलिखा द्विसप्ततिः।
वक्षसि सप्तदशेति। पूर्व व जत्रुणीत्युक्तम् इत्येकाधिकनवतिमध्यदेहे । द्वौ शङ्खको चखारि 'शिरःकपालानीति ग्रीवां प्रत्यूर्द्ध पड़, व्याख्यातानीति मिलिखा पष्ट्यधिकानि त्रीणि शतान्यास्थ्नां भवन्ति । तत्र शल्यतन्त्रेषु दन्तोलूखलानि द्वात्रिंशद विंशतिनखा जत्रणि द्वे हन्वस्थि चैकमिति पष्टिः पृथङ् नोच्यन्ते। दन्तग्रहणेन दन्तोलखलानां ग्रहणात् नखानां वाह्यखात् जत्रुणि द्वयोर्वक्षसोऽस्थिग्रहणेन ग्रहणात् हन्वस्थ्नश्च यौवने पृथकवाभावाद द्विखमिति न विरोधः। __सुश्रुते चोक्तम् । त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते। भवन्ति चात्र । स्थालैः सह चतुःषष्टिर्दशना विंशतिर्नखाः। पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् । षष्टाङ्गुलीनां द्वे पाण्योः कूर्चाधो मणिगुल्फयोः। चत्वार्यरत्रगोश्वास्थीनि जङ्घायां तद्वदेव च। द्वे द्वे जानुकूपरोरु-फलकांससमुद्भवे । अक्षे तालूपके श्रोणी-फलके चैवमादिशेन् । भगास्थ्येकं त्रिके पायौ पृष्ठे त्रिंशच पञ्च च। ग्रीवा पञ्चदशास्थिः स्यात् जच्चेकैकं तथा हनोः । तन्मूले द्व ललाटाक्षि-गण्डे नासाघनास्थिका। पाश्वकस्थालिकः सार्द्धमवुदानि द्विसप्ततिः। द्वौ शङ्खको कपालानि चखायंव शिरस्यथ । उरः पञ्चदशास्थि स्यात् पुरुषस्यास्थिसंग्रहः। इति । एतदेवाग्नेयपुराणे याज्ञवल्क्यसंहितायाश्च स्मृतावुक्तमिति
तथा पुनः सुश्रुते--शल्यतन्त्रे तु त्रीण्येव शतानि। तेषामष्टोत्तरशतं शाखासु । पड़ विंशत्युत्तरशतं श्रोणिपार्श्वपृष्ठाक्षोरःसु। ग्रीवां प्रत्यूद्ध पट्पष्टिः । एवमस्थ्नां त्रीणि शतानि पूयन्ते। एकैकस्यान्तु पादाङ्गल्यां त्रीणि त्रीणि तानि पञ्चदश। तलकूच्चगुल्फसंश्रितानि सप्त। पार्णावेकम् । जङ्घायां द्वे। जानुन्येकमेकमूरो, इति सप्तविंशतिरेकस्मिन् सनि भवन्ति। एतेन भगास्थि अभिमुखं कटीसन्धानकारकं तिर्यगस्थि। स्थालकानीति पर्युकानां मूलस्थानलग्नानि ।
For Private and Personal Use Only