________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६४ चरक-संहिता।
ज्वरनिदानम् भवन्ति चात्र । यथा प्रज्वलितं वेश्म परिषिञ्चन्ति वारिणा। नराः शान्तिमभिप्रेत्य तथा जीर्णज्वरे घृतम् ॥ स्नेहाद्वातं शमयति शैत्यात् पित्तं नियच्छति । घृतं तुल्यगुणं दोषं संस्कारात् तु जयेत् कफम् ॥, नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवत्तते । यथा सर्पिरतः सपिः सर्वस्नेहोत्तमं मतम् ।। पूर्वोक्तोछ यः पुनः पदारर्थः समनुगीयते ।
तद्वातिव्यवसायार्थ द्विरुक्तं तन्न गहाते ॥ २३॥ गङ्गाधरः-भवन्ति चात्रेत्यादि। यथेत्यादि । वेश्म काष्ठतृणादिनिर्मितगृहं, दोष कफमित्यन्वयः। संस्कारादिति ककहरद्रव्येण । ननु तैलवसादीनाम् अप्येवं विधि ज्वरे कुतो नोक्त इत्यत आह-नान्य इत्यादि। अन्यः स्नेहस्तैलादिः । वातश्लेष्मणोहितमपि हि तैलं वातकफादिहरद्रव्येण संस्कारात् खगुण विहाय संस्कारकद्रव्यगुणानावहतीति सर्वेषु ज्वरेषु न युज्यते इति भावः। ननु च्छान्दसच्छन्दसा यदेतमर्थमुक्तवान् पुनश्च तमर्थ पदोन कथं वक्तीत्यत आह-पूर्वोक्त इत्येदि। तदव्यक्तीति एतत् संहिताध्येत्पुरुषस्य व्यवसायार्थ शब्दतः कण्ठे धारणार्थ न गहाते पुनरुक्तखदोषाय न भवति ॥२३॥ क्षेपणीयाश्च ; तन ये न सर्वदा दृश्यन्ते वातशैत्यपित्तस्नेहादयः, त एवं प्रतिक्षेपणीयाः, नान्ये, तथैव दृष्टत्वात् ॥ २२॥ __चक्रपाणिः-तुल्यगुणमिति सर्वथा तुल्यगुणम् , ननु संस्कारात् फफहन्तृत्वे संस्कारेणैव कफो हन्यते, कस्तत्र सर्पिपो व्यापार इत्याह-नान्य इत्यादि। नान्य इति तैलादिः ; संस्कारम् भनुवर्तत इति संस्कारकद्रव्यकार्य करोति । तेनैतद् दर्शयति, यत्-तेनैव द्रव्येण याहङमानेन घृतं संस्क्रियते, अन्यश्च तैलादिस्तथैव संस्क्रियते, तदा घृतमेवान्यस्नेहेभ्यो विशेषेण संस्कारकवन्यकार्य करोति ;-अयं घृतप्रभावोऽधिका; तेन संस्कारात् कफविजये घृतमेव कर्त्तव्यम् इत्यर्थः , प्रपञ्चितश्चायमर्थः स्नेहाध्याये ।
ननु स्नेहाद वातं शमयतीत्यादिग्रन्थो गयनैवोक्तः, तत् किमर्थ श्लोकेनोच्यते * गद्योक्त इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only