SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः निदानस्थानम् । १२६५ तत्र श्लोकाः। त्रिविधं नामपर्यायहेतु पञ्चविधं गदम् । गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम् ॥ ज्वरमष्टविधं तस्य प्रकृष्टासन्नकारणम् । पूर्वरूपञ्च रूपञ्च भेषजं संग्रहेण च ॥ गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोका इति । त्रिविधमित्यादि। नामपर्यायैरिह खल्वित्यादिना नामपर्यायहेतु तत्रिविधमसात्म्येत्यादिना त्रिविधं हेतुम् । अतस्त्रिधेत्यादिना पञ्चविधं गदम् । तत्र व्याधिरामयेत्यादिना गदस्य लक्षणपर्यायान् लक्षणाय पर्यायान् । तस्योपलब्धिरित्यादिना व्याधेः पञ्चविधं ग्रहमुपलब्धिकारणम् । तं विस्तरेणेत्यादिना सन्दर्भाय प्रतिज्ञाय अथ खल्वष्टभ्य इत्यादिना ज्वरमष्टविधम् । तस्येत्यादिना प्रतिज्ञाय तस्याष्टविधस्य ज्वरस्य प्रत्येकशः क्रमेण । रुक्षलम्वित्यादिना आसन्नकारणं ससम्माप्तिकं पूर्वइत्याह-गयोक्तो य इत्यादि। तव्यक्तिव्यवसायार्थमिति, तद्भक्तिर्गयोक्तार्थस्य व्यक्तिः प्रसन्नतेति यावत्, व्यवसायोऽध्यवसायो ग्रहणमित्यर्थः । यस्मात् पूर्वोक्तार्थस्य स्वीकरणार्थ पुनः श्लोकेनाभिधानम् तस्मात् प्रयोजनान्तरयुक्तत्वात् न पुनरुक्तिदोष इति भावः, गयोक्तापेक्षया श्लोकाभिधानं सुखग्रहणं भवतीति लोकसिद्धमेव। अत्र च गयोक्त इत्युपलक्षणं तेन श्लोकोक्तोऽपि श्लोकेनोच्यत इति बोदव्यम् ; यथा-आरग्वधीये ; एवं गद्योक्तोऽपि गयनेति बोदव्यम् ; यथा-प्रपन्चेन कारणाद्यभिधायोक्तमेव "असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च' इत्यादि ; तथा श्लोकेनोक्तोऽपि गद्य नोच्यते ; यथा-“बह्मणा हि यथा प्रोक्तम्" इत्यादि श्लोकेनाभिधाय आद्यऽध्याये, पुनरन्यत्रोक्तम्-“यमायुर्वेदमश्विनौ मह्यं प्रायच्छेताम्" इत्यादि ; अत्र श्लोकाभिधानमेव सुखग्रहणार्थमिति ज्ञयम् ; किंवा, तव्यक्तिव्यवसायामिति यथायोग्यतया बोद्धव्यम् ; तेन प्रपञ्चाभिधानमनुवृत्यर्थ बोद्धव्यम्, संक्षेपाभिधानन्तु व्यवसाया. र्थम् ; तेन गद्यश्लोकाभिधानाभ्यां व्यक्तिव्यवसायौ क्रियेते ; तत्र प्रपञ्चाभिधाने अर्थस्य व्यक्तिः स्फुटतैवेति, संक्षेपाभिधानन्तु प्रपञ्चापेक्षया सुखग्रहणं भवति ॥ २३ ॥ चक्रपाणिः-संग्रहे यद्यपि हेतुपर्यायाः पूर्वमुक्तास्तदनु हेतुत्रैविध्यम्, तथापि च्छन्दोऽनुरोधेन तद्विपर्ययकथनम् ; नामरूपा योगरूढाः परया नामपर्यायाः ; पञ्चविधं गदमित्याग्नेयादि. भेदेन ; पर्यायनामानीति पाठे लिङ्गपर्यायाभिधानम् ; तस्य व्याधिपञ्चविधग्रहशब्देनैव “तस्योपलब्धिः” इत्यादिग्रन्थान्तर्निविष्टसकलार्थस्य गृहीतत्वात् ; गदलक्षणपर्यायानिति पाठे तु पूर्वपक्षो नास्त्येव ; पाठस्तु नायमतिप्रसिद्धः ; प्रकृष्टासन्न कारणमिति ज्वरस्य रुक्षादि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy