________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ] निदानस्थानम् ।
१२६३ कर्फ शैत्यात् पित्तमुष्माणञ्चोपशमयति । तस्मात् जीर्णज्वरेषु सर्वेष्वेव सपिहितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति ॥ २२ ॥ निगमनमाह-तस्मादित्यादि। दृष्टान्तमाह-उदकमिवेत्यादि। प्राणिनां व्यवच्छेदार्थमाह-द्रव्येष्विति । द्रव्येषु प्राणिषु । इममर्थं पदेन दशयति ॥२२ ग्रहणात् ; भनेन ज्वरस्योष्महरणेन सर्पिषो ज्वरव्याधिप्रत्यनीकत्वं दर्शितं भवति ; अत्र वात. शमनं सर्पिषोऽभिधाय पित्तशमनेऽभिधातव्ये कफशमनमुच्यते शेष तो वक्तव्योष्मरूपव्याधिप्रत्यनीकतयापि पित्तशमनहेतोः शैत्यस्य समानगुणत्वात् ; यदि त्विह मध्ये पित्तप्रशमनमुच्यते, तदा पुनःसंस्कारात् कमित्युक्त्वा शैत्यादुष्माणमिति वक्तव्यं स्यात्, यत्र तु श्लोकपाठे प्रत्यनीकत्वं घृतस्य पृथङनोक्तम्, तत्र, 'स्नेहाद वातं शमयति” इत्यादौ वातमनु पित्तमेव कृतमिति साधु कृतम् ; तस्मादिति दोषव्याधिप्रत्यनीकत्वात् ; 'जीर्णज्वर' इति वचनेनामज्वरे निषेधर्यात ; सामे हि समानगुणत्वात् सर्पिरहितम् ; शान्तिमिति सन्तापशान्तिम् ; अभिप्रत्येति बुद्धया स्वीकृत्य, तथा जीर्णज्वरे घृतं ददातीति शेषः । नन्वत्र श्लोके सर्पिगुणकथने किमिति व्याधिरूपोष्मशमनं नोच्यते ? ब्रमः-पित्तोष्माव्यतिरिक्तत्वेन ज्वरोष्मणः पित्तशमनेन एव लब्धत्वात् ; ननु यद्यवम्, गद्यपाठे पृथङ् न पठनीय उष्मा ; ब्रमः-यावानुष्मा शारीरः, स पैत्त एव ; यतो ब्रते-"उष्मा पित्ताहते नास्ति' इति, तथा "पित्तादुष्मणः पक्तिनराणामुपजायते' इति ; किन्तु, नासावुष्मा कदाचित् पित्तेन साम्येऽप्येको भवति, यथा-कफज्वरे कदा. चित् तु अधिके पित्ते वह्निरूप उष्मा मन्दो भवति, यथा च-पित्ताग्निमान्देव ; तदेवमुष्मा पित्ताद भिन्नोऽभिन्नश्च भवति । तत्र भेदं गृहीत्वा गद्यपाठे पृथग ज्वरोमा पठितः, श्लोकपाठे त्वभेदविवक्षया न पृथक पठितः ; अरे तु पित्तोष्मा ज्वरप्रभावेण वर्तते, स च प्रभावो ज्वरस्य दोष. दूष्यविशेषात्मकस्य, तथा “रुद्र क्रोधोद्भूतत्रिपादत्रिशिराः" इत्याद्यक्तमाणिविशेषस्य ज्ञयः । ननु सर्पिः कथं पित्तं हन्ति, यतः यथा पित्तविपरीतशैत्यं सपिपि, तथा पित्तसमानः स्नेहोऽप्यस्ति ? मैवम् ; पित्तं सस्नेहमित्यत्र ईषदर्थेन 'स'शब्देनाल्पस्य स्नेहस्याभिधानात्, उष्णत्वन्तु पित्ते प्रधानम् ; यद्यपि पित्तं जलेनाप्यारब्धम्, तथापि तत्र शैत्यमभिभूयाग्निकृतम्
औषण्यमेवाधिकं भवति तथा तेजसो रोक्ष्येण जलकृतस्नेहोऽपि पित्तेऽभिभूयते, द्रवत्वन्तु जलकृतं तेजसा नाभिभूयते ; दृश्यते ह्यग्निसंपृक्तजले द्रवत्वमल्पस्नेहता उष्णता चेति ; किंवा किमनेन तप्तजलहटान्तेन, अष्टकृत एवायं भूतानामुत्पादः ; तेन कश्चिदेव गुणः पाञ्चभौतिकत्वेऽपि द्रव्याणामाविर्भूतो भवति न तु सर्वः ; यथा-शालिषु तोयकृतं मधुरत्वम्, न तु गौरवमित्युक्तं सूत्रस्थाने । उत्सर्गतः सस्नेहस्यापि पित्तस्य कदाचित् तेजोभूयस्त्वेन रुक्षत्वमपि भवति जीर्णज्वरे ; तेन सस्नेहशीतं सपिहित तत्र भवतीति न दोषः ; अत एवोक्त चिकित्सिते-"रुक्षं तेजो ज्वरकरम्” इत्यादि ; न च वाच्यम्-यथा सांसिद्धिकमपि चेत् पित्तस्य स्निग्धत्वमपैति तथा वातस्यापि रौक्ष्यं किमिति नापैतीति ; यतो विचित्रा एव हि गुणा अप्रतिक्षेपणीयाः प्रति
For Private and Personal Use Only